पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

यत्तु ससर्वज्ञः सर्वमा विवेशेतीति मन्त्रेण सर्वञ्जगत्कार्यकारणलक्षणं परेऽक्षरे सुषुप्तिकाले सम्प्रतिष्ठते इत्युक्तं तत्सामर्थ्यात्प्रलयेऽपि तस्मिनेत्र सम्प्रतिष्ठते ऽकारणे कार्यलयाभावात्तस्यैव कारणत्वमुक्त- प्रायं तद्विज्ञानात्सर्वभावापत्तिश्चोक्तैव ।

 यद्यपि एकमेवाद्वितीयं ब्रह्मेत्युपक्रम्याहं ब्रह्मास्मीति तस्मात्त- त्सर्वमभवदियादिषु अद्वितीयात्मज्ञानादेव मुक्तिनतु निखिलजगत्का- रणज्ञानात्तथापि तस्य कारणत्वे तद्व्यतिरेकेण कार्यभावात्तदद्वि- तीयत्वज्ञानं भविष्यत्येव । तस्माद्यद्विज्ञानात् मुक्तिः सकिं यथात्र- तथैवान्यत्र, अन्यथावेति सन्दिहानस्य प्रश्नः । तं षोडशकलं पुरुषं यं राजकुमारः पृष्टवान् । षोडशसंख्याकाः श्रद्धाख्याःकलाअवयवा इवात्मन्यविद्याध्यारोपितरूपा यस्मिन्पुरुषे तं क्वासौ विज्ञेय इति शेषः । अन्तः शरीरे जीव एव वान्यो वेति प्रश्नाभिप्रायः । अन्यत्स्पष्टम् ॥

 मुण्डकोपनिषदि । ‘अथ परा यया तदक्षरमधिगम्यते यत्तद- द्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभु सर्व- गतं सुसूक्ष्मं तदव्ययं भूतियोनि परिपश्यन्ति धीरा'इत्युपक्रमः । 'पुरुष एवेदं विश्वंकर्म तपो ब्रह्म परामृत’ मित्युपसंहारः । “अप्राणो ह्यमनाः श्रुभ्रोऽक्षरात्परतः परः । आविः संनिहितं गुहाचरं ना- म महत्पदं । अत्रैतत्समर्पितमेजत्प्राणं निमिषच्च यत् । तदेत- त्सत्यं तदमृत' मित्याद्यभ्यासः । न चक्षुषा गृह्यते नापि वाचा ना- न्यैर्देवैस्तपसा कर्मणा वे’त्याद्यपूर्वता । "एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकरतीह सोम्य सयो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवतीति फलं । ‘प्लवा ह्यते अदृढा यज्ञरूपा अष्टदशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनदन्ति मूढा. जरा मृत्युन्ते पुनरेवापयन्ती'- त्याद्यास्तदर्थवादाः । यथोणनाभिः सृजते गृह्णते च यथा पृथिव्या- मोषधयो भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्स-