पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
सर्गक्रमनिरूपणम् ।

म्भवन्तीहविश्व मित्याद्युपपत्तिः । अथ परा ‘ब्रह्मैव वैदामृतं पुरस्तात् ।।

'येनाक्षरं पुरुष वेदसत्यन्तदक्षरं ब्रह्म' तमेवैकञ्जानथा आत्मान- मित्यादि । नचक्षुषा गृह्यते नापि वाचेत्यादि । 'निरंजनः परमं सा- यमुपैति' ‘ब्रह्म वेद ब्रह्मैव भवति । यथा सुदीप्तात्पावकाद्विस्फु- ल्लिङ्गात् कस्मिन्भगवो विज्ञाते' इत्यादिक्रयेणोपक्रमादिकं वाज्ञेयम् ।

 माण्डूकोपनिषदि। ‘सर्वं ह्यतब्रह्मा यमात्मा ब्रह्मे'त्युपक्रमः । ‘स आत्मा विज्ञेय' इत्युपसंहारः। 'एकात्मप्रत्यय सारं प्रपञ्चोपशमं शा- न्त शिव’ मित्याद्यभ्यासः । *अदृष्टमव्यवहार्यमग्राह्यमित्याद्यपूर्वता । 'संविशत्यात्मनात्मानं य एवं वेद' इतिफलं । 'उत्कर्षति हवै ज्ञानस- न्ततिं समानश्च भवति नास्याब्रह्मवित्कुलेभवती’त्याद्यर्थवादः ।‘सोऽ. यमात्मा चतुष्पा'दित्याद्युपपत्तिः ।

 तैत्तिरीयोपनिषाद । सयं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायापरमे व्योमन्सोश्नुतेसर्वान्कामान्ब्रह्मणा सह विपश्चिते’त्यु- पक्रमः। 'सयश्चायं पुरुष यश्चासावादित्ये स एकः । इत्यपसंहारः । अत्र यद्यपि यश्चायं पुरुषे यश्चासावादित्ये स एक इत्येतावन्मन्त्रेणे वाखण्डाथैविवरणसम्भवाज्जीवपरे प्रथमवाक्ये स इत्यधिकं किञ्च जीवस्यापरोक्षत्वेन योऽयमिति निर्देशयात्रस्यैवौचित्येन परोक्षपरेण स इतिशब्देन निर्देशोऽनुचित एव । नच य इति पदस्यापि परो- क्षपरत्वेन जीववाक्ये निर्देशोऽनुचित इति वाच्यम् । गत्यन्तरा- भावेन तदुपादानात् । तथाहि स एक इत्यनुवादवाक्ये निर्देशस्य- विना यत्पदघटितवाक्यं कर्तुमशक्यतया यत्तदोर्नित्यसम्बन्ध इति न्यायस्य जागरूकत्वेन चापरोक्षपदानिर्देशासम्भवात् । तथाच स इत्याधिकमिति । तथाप्यधिकार्थविवक्षयार्थवत्त्वात् । तत्त्वमेव, त्वमेव तदिति कैवल्यवाक्यवदत्रापि परोक्षत्वपरिछिन्नत्वादिदोषोन्मृलन- रूपाधिकार्थस्य सम्भवात्।