पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

 उपक्रमार्थस्तु भाष्यवार्त्तिकादिष्वनुसन्धेयः । 'तत्सृष्ट्वा तदेवा- नुप्राविशत् । सच्च त्यच्चाभवत् । तदात्मानं स्वयमकुरुत' इत्यभ्या- सः । यत्तो वाचो निवर्त्तते अप्राप्य मनसा सहे'त्यपूर्वता। ‘ब्रह्मवि- दाप्नोति परं । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति फलं । अत्र यद्यपि आनन्दं ब्रह्मति निर्देश उचितः सर्वत्राखण्डानन्दादेव- तादृशफलोक्तेः । तथाप्यकशतं षष्ठ्यर्था इत्यभियुक्तोक्त्या राहो: शिर इत्यादाविव षष्ठयुपपत्तेः ।।

 वस्तुतस्तु । आनन्दो ब्रह्मेत्यादावन्नमयादिषु मध्ये यतो जग ज्जन्मादि तदखण्डरूपं ब्रह्मेत्युपक्रमसामर्थ्योदानन्दपदस्य जीवपर- त्वनिर्णय सम्भवेऽपि प्रकृते तादृशापक्रमाभावादानन्दपदं तत्पदार्थ- परमिति भ्रमवारणाय षष्ट्युक्तिरिति । 'असन्नेव स भवति । अस- ह्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु’ रिति ब्रह्मासत्ववेदिनो निन्दात्मरूपः, सत्ववेदिनः स्तुतिरूपोऽ. र्थवाद इति ।।

 अत्र यद्यपि अस्ति ब्रह्मेति चेद्वैदेत्युत्तराद्धे ऽन्वयनिर्देशान्व- यविपरीतत्वेनैव व्यतिरेकेऽपि निर्देशः समुचितः । एवं यथावेदनं व्यतिरेकेऽन्वये चे फलदर्शनौचित्यात् । न स्यात्स कश्चिन्नास्ति ब्रह्मे-- ति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद स्यादेवेति निर्देश एव । पूर्वार्द्धे वेदपदोत्तरञ्चेत्पदप्रयोग, उत्तरार्द्ध तु तद्वैपरीत्येन, प्रयोगे निया मकाभावे उपक्रमानुरोधेनैव प्रयोगउचितस्तथा फलनिर्देशोऽपि । एवमेवकारपदानुदानयपि उत्तरार्धेऽनुचितं, चेपदानुपादानं पूर्वार्द्धे च तथाप्यर्थविशेषसूचनाय तथोक्तिः ।।

 तथाहि । असत्पदमविद्यमानं त्रिकालाबाध्यभिन्नं पापानुरत- मसाधु इत्यादि बोधयति । सन्तमिति निर्देशाद्विद्यमानत्वत्रिकाला- बाध्यरूपत्त्रादि परिगृहीतं । अस्ति ब्रह्मेति वेद चोदति निर्देश भावस्तु । ज्ञायमानब्रह्मसत्तैव. मुख्या नतु उत्तिरूपं ज्ञानमिति ला-