भाय । अस्ति ब्रह्मेति ज्ञानादाविद्यानिवृत्तिविलंबकृतः फलस्य प- श्चाद्भाव इति मृचनायोत्तरार्द्धे पश्चात्फलवचनम् । पूर्वार्द्धे तु अनादि- कालमारभ्यैवाविद्या सम्भवति । असद्वेदनं तु सुतरां पूर्वकालपृवृ- त्यविद्याधीनासत्वान्तरमप्यस्तीति सूचनाय प्रथमं फकवचनम् । उत्तरार्दै एवकारानुपादानं तु निवर्त्तनीयत्वेनासत्त्वसम्भावनापि नेति लाभाय । पूर्वार्द्धे चेन पदानुपादानं तु पापीयस्त्वेन नामग्रहणा- योग्यतां सूचयति । अत एवासंद्वेदनमेव पापहेतुरिति तद्वाक्ये एव चेत् पदन्नोपात्तम् । फलवाक्ये स इतिपदमुपातं सङ्गतं भवति । उत्तरार्द्धे चेत्पदानुपादानं तु वेत्तुमर्हन्वसूचनाय । महतो गुर्वादेः साक्षान्नाम न ग्राह्यामिति मर्य्यांदा ।
आत्मनाम गुरोनम नामतिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥
इति वचनात् । को ह्येवान्यात्कः प्राण्यात् यदेष आकाश
आनन्दो न स्यात् ’ । 'भीषास्माद्वातः पवते भीषदेति सूर्यः । भी-
पास्मादग्निश्चेन्द्रश्च मृत्युद्धवति पञ्चम' इत्युपपत्तिः । ब्रह्मविदाप्नोति
परे । आनन्दं ब्रह्मेति व्जानात् । सयश्चायं । यो वेद निहितं गु-
हायां । अभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवतीति । सो
ऽकामयत असन्नेव स भवति असद्ब्र्ह्मेति वेद चेत् । अस्ति ब्रह्मेति
चेद्वेद सन्तपेनं ततो विदुः । कोह्यावान्यात्कः प्राण्याद्यदेष आ-
काश अनन्दो न स्पादित्यादिक्रमेणोपक्रमादिकं वा बोध्यम् ।
ऐतरेयोपनिषदि । ‘आत्मा वा इदमेक एवाग्र आसन्नान्यत्कि- ञ्चन मिष दित्युपक्रमः । ‘स एवमेव पुरुषं ब्रह्म ततमपश्य, दित्युप- संहारः । स एतमेव सीमानं विदार्य्यैतया द्वारा प्रापद्यत । येन पश्यति येन शृणोति । एष ब्रह्मैव इन्द्र एष प्रजापतिरेते सर्वे देवा' इत्यभ्यासः । इत्येवापूर्वत सर्वभावापत्तेः प्रमाणान्तरेणानग- मात् । नच लिङ्गानां साङ्कर्यं । अत्र प्रमाणसम्भवेन तथाङ्गीकारा-