पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
सर्गक्रमनिरूपणम् ।

 ननु कुत्रचिद्भेदतात्पर्यबोधकान्यपि पडूविधानि लिङ्गानि सन्ति । तथाहि अथर्वणे-"द्वा सुपर्णे" त्युपक्रमः । ‘परमं साम्यम्मुपै- ती'तिभेदघटितसाम्यरूपेणोपसंहारः । "तयोरन्यः पिप्पलं स्वाद्वत्ति । अनश्नन्नन्य" । ‘जुष्टुं यदा पश्यत्यन्यमश’ भियभ्यासः । शास्त्रैकग- म्येश्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विना अप्रा- प्तेरपुर्वता । ‘पुण्यपापे विधूर्य'ति फलं । तस्य माहमान मिति स्तु: तिरूपोऽर्थवादः । ‘अत्ति, अनशन’न्नित्युपपत्तिः ।

 एवं अन्तयामिब्राह्मणेऽपि तादृशानि पड्विधतासयलिङ्गानि तथाहि--‘वेत्थ तत्वङ्काप्य तमन्तर्यामिण’ मित्युपक्रमः । "एष ते आत्मा अन्तर्मयाम्"त्युपसंहारः । "एष ते आत्मे"त्याद्येकविंशतिकृत्वोऽभ्या- सः । अन्तर्यामित्वस्याप्राप्ततयाऽपूर्वता । स वै ब्रह्मवि'दित्यादि फळम् । ’तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वास्तं चातर्य्यामिणं ब्रह्मगवी- रुदजसे मूर्द्धा ते विपतिष्यतीं’ ति निन्दारूपोऽर्थवादः। "यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्याधुपपत्तिरिति चेत् ।

 मैवम् । आथर्वणे प्रथममुण्डके ‘कस्मिन्भगवो विज्ञाते सर्वमिदं विज्ञानं भवती’ तिशौनकप्रश्नानन्तरं द्वे विद्ये वेदितव्य' इति विद्यां- द्वयमवत्तार्य्य ऋग्वेदादिलक्षणामपरामुक्त्वा । 'अथ पर यया त- दक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमित्यादिना परविद्यावि- षयमक्षरं प्रश्नानुसारेण प्रतिपादयता अभेदस्यैवोपक्रान्तत्वात् । अन्यथा तदुत्तरत्वानुपपते. । द्वितीयमुण्डके पुरुष एवेदं विश्वं ब्रह्मै- वेदं विश्वमिदं वरिष्ठ'भिति मध्ये परामर्शात् । तृतीयमुण्डकान्ते च परे ऽव्यये सर्व एकीभवन्ति' इति उपसंहारत् । ‘सयो हवैतत् । परमं ब्रह्म वेद ब्रह्मैव भवती'त्वैक्यलक्षणफलकथनाञ्च । परमं सा- म्यमुपैतीत्यस्य पूर्वोक्तन्यायेन ऐक्यपरत भेदोपसंहारत्वाभा- वात् । भेदपरत्वे परमशब्दवैयर्थ्यापत्तेश्च ।

 नचैवं साम्यकथनानुपपत्तिः । सोऽश्नुते सर्वान् कामानि-