पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
सर्गक्रमनिरूपणम् ।

किञ्चनेत्यादिश्रुतरेव मानत्वात् । चेतनाध्यस्तजडादुपादानजड- प्रकृत्यङ्गीकारे ऐन्द्रजालिकानिर्मिताध्यस्तापरपर्यायमिथ्यावस्तुभूत- मायाया प्रकृतिस्वरूपपरा ‘मायां तु प्रकृतिं विद्या’ दित्यादिश्रुतिः कदार्थता स्यात् । ।

 नच लोके सत्यमन्त्रौषधादावपि मायाशब्दप्रयोगात् तद्विाश- ष्टे मायाविशब्दप्रयोगाञ्चैन्द्रजालिकानिर्मितीमथ्यागजादौ लाक्षणिक एवेति वाच्यम् । मिथ्यागजादिसृष्टत्वाज्ञानदशायां पुरुष स्वरूपेण मन्त्रौषधादिज्ञानेऽपि तच्छब्दप्रयोगात्तत्ज्ञानदशायां च तत्प्रयोगा- दिति अन्वयव्यतिरेकाभ्यां साधारणभ्रमानुकूलशक्तिमत्येव शक्त्यव- धारणेन तत्रैव मुख्यत्वात् ।।

 अतएव 'ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्मे,त्यादिना ‘सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेय' इत्या- दिश्रुत्या द्वितीयचेतनजगदुपादानब्रह्मावगत्या ब्रह्मवदनशीलाना मद्वितीयस्य चेतनस्य चित्रकारवज्जनकत्वं विचित्रजडसामग्रीं विना न, तदर्थं सा कल्प्यमानाऽद्वैतश्रुत्यविरोधायासती एव स्यात् । असत्याश्च न क्वापि कार्यानुगतकारणापरपर्यायोपादानादिकारणनिर्वाहकत्वं दृष्टमित्याद्यसम्भावनाविपरीतभावनागोचरपरस्परवदनमुपन्यस्य---

 ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणै र्निगुढाम् ।

 इत्येतेन मननोपजीवकनिदिध्यासनगम्यां उक्तशङ्कानिरासद्वा- रा ब्रह्मण उपादानकारणत्वोपपादिकां देवात्मशक्ति दर्शितवती श्रुतिस्सङ्गछते । शक्तेः सदसद्विलक्षणत्वानङ्गीकारे तूक्तशङ्कानि- वृत्तेः । नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसभ्द्याम- निर्वाच्या मिथ्याभूता सनातनी’त्यादिसौरादिवाक्याञ्च ।

 यत्तु भाष्ये मिथ्याभूता लयाख्या व्यावहारिकासत्ववती प- रिणामिनित्यतारूपव्यावहारिकसववती चेति तन्न । तादृशार्थ- परत्वे मानाभावात् । नचैवं विकारजननीं मायामष्टरूपां मतां ध्रुवां