पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

‘मायान्तु प्रकृति 'मित्यादिश्रुतिविरोध इति वाच्यम् । प्रकृति निर्वा हकमात्राभिप्रायतया तस्या गौणत्वात् । अतएवेंद्रो मायाभिः पु- रुरूप ईयत' इति ब्रह्मणः पुरुरूपतापत्तौ तस्या निमित्तत्वश्रुतिरपि सङ्गछते ।।

 नच मायाशब्दस्य शक्ती शक्त्यङ्गीकारे भ्रमानुकूलशक्ति- मति शक्तिरित्युक्तिर्विरुध्येतेति वाच्यम् । शक्तिवदीश्वरपरतन्त्रतया तादृशशक्तिमदज्ञानस्यैव लक्षणयाभिधानात् । नच ज्ञानप्रयो- जकावरकशक्तिः । शुक्तिरजताद्यसाधारणभ्रमानुकूलशक्तिर्वाऽज्ञा- नपदस्य शक्यतावच्छेदिका, कार्यानुकूला ऐन्द्रजालिकनिर्मितगजा- द्यसाधारणभ्रमानुकूलशक्तिर्वा मायापदस्य शक्यतावच्छेदिका । तथाचावच्छेदकभेदे कथं मायापदेनाज्ञानमुच्यत इति वाच्यम् । पाचकपाठकपुत्रपौत्रादिपदार्थतावच्छेदकानामेकस्मिन्मैत्रे वृत्तित्वे- नावच्छेदकभेदस्य व्यक्तिभेदाव्याप्यत्वात् ।।

 नच तत्र व्ययक्तभेदस्य प्रत्यक्षत्वाद् दृष्टान्तवैषम्यमिति वाच्यम् । सर्गाद्यकालीनं कार्य चेतनातिरिक्तसहकार्यन्तरजन्यं कार्यत्वात् । घटवदित्याद्यनुमानस्य लाघवेनैकव्यक्तिविषयकत्वात् । जीवेशा- वाभासेन करोति । माया चाविद्या च स्वयमेव भवति । “तरत्य- विद्यां विततां हृदि यस्मिन्निवाशते । योगीमायाममेयाय तस्मैवि- द्यात्मने नम’ इयादि मायाविद्याऽभेदगोचरश्रुतिस्मृतिभ्यश्च । योगो निदिध्यासनजन्य ब्रह्मसाक्षात्कारो ऽस्यास्तीति योगी । यस्मि- न्सर्वाधिष्ठाने ब्रह्मणि च हृदि अन्तः करणे निवेशिति ऽहं ब्रह्मास्मी- ति साक्षात्कृते सति ज्ञानप्रयोजकेत्यादिनोक्तशक्तिप्राधान्येना- विद्याशब्दवाच्यं, कार्यानुकूलेत्यादिनोक्तशक्तिप्राधान्येन माया- शब्दवाच्यं तरति नाशयति तस्मै नम इति योजना । कथं वि- यात्मने-चैतन्यस्वरूपाय ।

 ननु साक्षात्कारविषयस्य घटादिवत्स्वप्रकाशत्वं बाधितमित्या