आद्यपक्षे षाष्ठकप्रतिनिधिन्यायोपजीवकसन्दंशन्यायविरोधापत्तेः ।
तथाहि । ‘श्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वा'. दित्यत्र दर्शपूर्णमासयोः श्रुतद्रव्यापचारे द्रव्यान्तरं प्रतिनिधाय -प्र योगः कर्तव्यो न वेति संशयय न कर्तव्यः प्रमाणाभावात् । प्रमाणं हि कर्मचोदना द्रव्यं प्रयुंक्ते दुव्यप्रयोजकं हि व्रीहिभिर्यजतेति तद्व्री हीणां प्रयोजकं नान्यस्येत्याशंक्य व्रीहिशास्त्रं हि न दुव्यस्य विधायकं किंतु कर्मचोदनाक्षिप्तं द्रव्यं व्रीहिशास्त्रेण नियम्यते---
यदा त्वलाभाद्वीहीणामुदास्ते व्रीहिचोदना ।
कर्मशास्त्रं तदा द्रव्यमन्यदाक्षिपति ध्रुवम् ।
तस्मादस्तिप्रतिनिधिः ।
इति सिद्धान्तितम् । तदुपजीव्य ‘सामान्ये तञ्चकीर्षा हि ' इत्यत्र
यात्किंचित्प्रतिनिधातव्यमुत सदृशमेवेति परामर्शे आग्नेयचोदना ता-
वक्तिंचिद्द्रव्यमाक्षिपेत् । व्रीहिशास्त्रं पुनःव्रीहिविषयं नान्यगोचर-
मतः प्रमाणाभावान्न सदृशसंग्रह इत्याक्षेपे प्राप्ते ।
व्रीहि चोदनया सयं व्रीहिजातिर्विधीयते ।
साच द्रव्यपरिच्छेदद्वारेणाङ्गत्वमृच्छति ।
तञ्च द्रव्यं परिच्छिन्नमनेकावयवात्मकम् ।
अवयवा एव ह्येकद्रव्यतामापन्न अवयविशब्दाभिधेया जात्या परिच्छिद्यन्ते । नत्वत्यंतमर्थां तरमतस्तैरेवावयवैर्जात्याश्रयीभूतैः कर्म साधनायं तत्र यदि सदृशमुपादीयते ततस्तेषामवयवानां कातपया' लभ्यन्ते जातिमात्रं अवयवान्तरमात्रं च परित्यक्तं भवति । वि- शदृशोपादाने पुनः समस्तपरित्यागः स्यात् । अतो ब्रीहिशास्त्रमपि यथासंभवमुपपादयितुं सदृशोपादानमिति सिद्धान्तितत्वम् ॥ :
तथाच नीवारेष्वपि ब्रीह्मवयवानां सत्वात्तदुक्तरीत्या स एवं पक्षो मुख्यश्रौतः स्यात् । तथासत्युभयोल्लाभेऽपि नीवारपक्ष एवा- श्रवणियस्यात्तथाच तात्सद्धान्तो भज्येतेति भावः । द्वादशकसमुः ।