पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
सर्गक्रमनिरूपणम् ।

 प्रकृतेः इति । प्रकृतिरव्यक्तम् । महदहङ्कारौ व क्ष्यमाणलक्षणौ । एकादशेन्द्रियाणि वक्ष्यमाणानि, त न्मात्राणि च पञ्च, सो ऽयं षोडशसंख्यापरिमितो गणः षोडशकः । तस्मादपि षोडशकादण्कृष्टेभ्यः पञ्चभ्यस्त न्मात्रेभ्यः पञ्च भूतान्याकाशादीनि ।

 तत्र शब्दतन्मात्रादाकाशं शब्दगुणम्, शब्दतन्मा- सहितात् स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः, शब्द- स्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुण- म्, शाब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः श- ब्दस्पर्शरूपरसगुणाः, शब्दस्पर्शरूपरसतन्मात्रसहिताद्ग-


रवात् । किश्चैकैकं त्रिधा विभज्य ततोऽशद्वय एकेक**वा* वि- भञ्ज्य स्वस्वेतरांशेषु मेलनमित्यादि रीत्यापि स्वांशद्विकपञ्चविभा- गसम्भवेन पञ्चीकरणसम्भवे सम्प्रदायरीत्यैत्र पञ्चीकरणे वि- निगमकाभावन्त्रिवृत्करणश्रुतिविरोधाञ्च त्रिवृत्करणपक्ष एव मुख्यसिद्धान्तो भाति ।।

 सोऽपि अहंकाराच्छब्दतन्मात्रं ततश्चाहङ्कारसहकृताच्छब्दतन्मा- त्राच्छब्दस्पर्शगुणकं स्पर्शतन्मात्रमेवं क्रमेणैकैकगुणवृद्ध्या तन्मात्रा- ण्युत्पद्यन्ते इति समानार्थक-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दा दयः पञ्चाविशेषा-इति श्रीमद्भगवत्पूज्यपाद वेदव्यासाचार्यकृत योगभाष्यविरोधात्तेजसो गन्धादिमत्व प्रसाक्तिदोषाञ्च न मुख्य इति सूचयन् तत्प्रक्रिययैव भूतोत्पत्तिमाह-तत्रेत्यादि । अतएव कियद्भिः विद्यारण्यस्वाम्यादभिरपीयमेव प्रक्रियाङ्गीकृता ।

 नचैवंत्रिवृच्छ्रुतिविरोधस्तस्या यथाव्यवहारप्राप्तानुवादत्वात् । अन्यथा न्यूनाधिकवैचित्र्यानुपपत्तेः । नच न्यूनाधिकव्यवहारस- त्त्वेऽपि चन्द्रादिपरिमाणबोधकशास्त्रस्येव नानुवादत्वमिति वाच्यम् ।



   ३८