पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

तत्र दूरत्वादिदोषवदत्र देषानुपलम्भात् । सर्वत्र दोषकल्पने ऽना श्वास प्रसङ्गात्

 वस्ततस्तु योगभाष्योक्तपक्षेऽपि क्वचिज्जलादौ यावदुद्रव्यभा- व्यौप्यस्याल्पवडवानले जलविनाशकत्वस्य क्वचिद्देशविशषस्थिता- ल्पतेजसि जलाविरोधित्वस्योपलब्धेर्मतद्वयवत्प्रतिबन्धकत्वं, यथा- व्यवहारप्राप्तानुवादकत्वं वाऽवश्यं कल्पनीयम् । तथाच मतद्वयाक्तिं लाघवम् एकद्वि इत्यादेः को विशेषश्च ।

 किंच मतत्रयेऽपि वायुस्पर्शस्यैव सर्वत्राङ्गीकारेण तैजसादौ त- द्विरुद्धोष्णस्परशाद्यनुपपत्तिः । नचैवं सति कारणगुणाः स्वसजातीय- कार्यगुणानारभन्ते इतिनियमवादनां मतप्रवेश इति वाच्यम् । तादृ- शनियमस्य पूर्वं दूषितत्वात् ।।

 यदप्याकाशं द्विधा विभज्य ततश्चैकमर्द्धं चतुद्धा विभज्य ते- षां चतुर्णां खेतरत्र योजनं । वायोः षोडशांशमाकाशे संयोज्य पु- नः द्विधा विभज्य पुनरकमर्द्धं त्रिर्विभज्य तेषां स्वस्मादुत्तरेषु त्रि- षु योजने । एवं तेजसः षोडशांशमाकाशे वायौ च संयोज्य पुन- द्विधा विभज्य पुनरेकार्द्धं द्विधा विभज्य तचैकैकं स्वस्मादुत्तरयो- र्योजयेत् । एवं जलस्य षोडशाशं षोडशांशं पूर्ववत् त्रिषु संयोज्य पुनः त्रिधा विभज्यैकांशस्य पृथिव्यां योजनं । पृथिव्यास्तु चतुर्थांश चतुद्ध विभज्यैकैकं वेतरत्र चतुर्षु योजयेत्

 तदपि न । आकाशादेश्चाक्षुषत्वादिदोषाभावेऽपि पूर्वोक्तविनिग- मनाविरहतावस्थ्यात् । तैजसादौ विरुद्धोष्णस्पर्शाद्यनुपपत्यानिवृतेः सर्वजनीनरूपरसगन्धादिवचित्र्यानुपपत्तेश्च

 किंच ज्ञानकरणत्वेन क्लृप्तानामिन्द्रियाणामदृश्यत्वात्सूक्ष्मत्वा- क्रीकारेऽपि महद्बूतोत्पत्त्यैव व्यवहारनिर्वाहे किमान्तर्गडुना सूक्ष्मभूतो- त्पत्त्यङ्गीकारेण तदङ्गीकारे भूयस्त्रिवृदादिकरणे गौरवं च ।

 यदि जालांतर्गतसूर्यमरीचिषु यत्सूक्ष्मं द्रव्यमुपलभ्यते तत्त्र्यणुकं