तत्षष्ठांशःपरमाणुस्वरूपमतीन्द्रियं पृथिव्यादिसूक्ष्मभूतमेकैकं, ताहिँ तेषामतिसूक्ष्मत्वाद्विभजनासंभवः । यद्यनेकात्मकं सूक्ष्मं च तर्हि परमाणुमतप्रवेशः तच्च मतं श्रीमद्भगवदाचार्या दूषयांबभूवुः ।
एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि च ।
खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
इत्यादौ त्रिवृत्करणादौ प्रयासं सुक्ष्मेन्द्रियाद्युत्पादनप्रयोजना
भावं च श्रुतितात्पर्याभावं च विमृश्य त्रिवृकरणादिप्रक्रियां विहाय
एतानि च शब्दस्पर्शरूपरसगन्धोत्तरगुणानि पूर्वपूर्वगुणसहितानि
एतस्मादेव जायन्त इत्यनेन स्थूलप्रक्रियां चाङ्गीचक्रुः । सृष्टौ तात्प-
र्याभावश्च तत्प्रतिवद्धफलाश्रवणात् । कार्यकारणशून्यमाद्वतीयं ब्रह्मे-
त्युक्ते कार्यजातस्यान्यदेव किञ्चित्कारणं स्यादिमाशङ्कायामद्विती-
यत्वमप्रतिपादितं स्यात्तदर्थं ब्रह्मैवोपादानमित्युक्त्या तच्छक्त्यानि-
रासद्वाराऽद्वितीये ताप्तर्यवधारणाच्च । तत एव गुणगुणिभावोऽपि
न कणभक्षादिमतवत् । किन्तु राहोः शिर इतिवत् व्यपदेशमात्रमि-
त्यलमतिप्रसङ्गेन ।
स्वमते दिग्कालौ चाकाशमेव । एतेषु पदार्थेषु अष्टौ ‘प्रकृत- यः । षोडश विकार' इति गर्भोपनिषत् , प्रथिवीं च पृथिव मात्रा चेत्यादिप्रश्नोपनिषचेत्प्रमाण अनुमानं च तथाहिं—अपकर्षका- ष्ठापन्नानि स्थूलभूतानि स्वविशेषगुणवत्द्रव्योपादानकानि स्थूलत्वा- व घटादिवत् । स्थूलत्वं च बाह्यन्द्रियग्राह्यविशेषगुणवत्वं । अत्रा- नवस्थापत्या सूक्ष्ममादायैव साध्यं पर्यवस्यति । अनुकूलतर्कशात्र- कारणगुणप्रक्रमेण कार्यगुणोत्पत्तेर्बाधकव्यतिरेकेणापरिहार्यत्वम् ।
नच प्रकृत्यादिकमादायार्थान्तरं, प्रकृतेः शब्दादिगुणरहितत्वे- न सिद्ध्यसम्भवात् । तत्र-
शद्धस्पर्शविहीनं तु रूपादिभिरसंयुतम्
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥