पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

 इति विष्णुपुराणादिवाक्यजातं मानम् । बुढ्यहंकारयोश्च श- ब्दस्पशादिमत्त्वे भूतकारणत्वश्रुतिस्मृतय एव बाधिकाः । वाह्ये- न्दियग्राह्यजातीयविशेषगुणवत्त्वस्यैव भूतलक्षणत्वेन तयोरपि भूत- त्वापत्या स्वस्य स्वकारणत्वानुपपत्तेरिति । कारणद्रव्येषु रूपा द्यभावेऽपि तन्मात्रारूपाद्यनुपपत्तिपरिहारस्तूक्त एव ॥

 नन्वेवं विशेषगुणवद्रव्ये सिद्धेऽपि लाघवाच्छब्दादिविशेषगु- णवत्सूक्ष्ममेकमेव सिद्ध्येदिति चेन्न । आकाशे स्पशादिप्रतीत्यापत्ति विरोधेन लाघवस्याकिञ्चित्करत्वात् । मात्रासंज्ञा तु 'पृथिवीच पृथिवीमात्रा चेत्यादिना श्रौती । इन्द्रियानुमानं तु ‘अत्रहि रूपा दिज्ञाना’ दित्यादिना टाकायामुक्तम् । तत्वान्तरेण तत्वान्तरानुमान- मेव प्रकृतत्वादिदानींमुच्यते बाह्याभ्यन्तरेन्द्रियैः पञ्चतन्मात्रैश्च अभिमाननुत्तिमदन्तः करणरूपाइङ्कारसिद्धिः ।

 तथाहि-तन्मात्रेन्द्रियाणि अभिमानवद्रव्योपादानकानि अभिमानकार्यद्रव्यत्वाद्यनैवं तनैवं यथा पुरुषादि । नचाभिमान वद्द्रव्यमेवासिद्धमिति वाच्यम् । अहं गौर इयादिबुद्ध्युपादानतया तसिद्धेः । नच प्रकृत्यादिनार्थान्तरम् ।


 वैकारिकस्तैजसश्च तामसचेत्यहं त्रिधा ।
 अहंतत्वाद्विकुर्वाणान्मनो वैकारिकाश्च ये ।
 देवा अथोभिव्यञ्जनं थतः सः प्रवृतयः ॥
 तैजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च।
 तामसाभूतसूक्ष्मादि यतः खं लिङ्गमात्मनः॥


 इत्यादिस्मृतिविरोधेन प्रकृत्यादिसिद्ध्यसम्भवात् । अत्र वि- पर्यये ‘बहु स्यां प्रजायेय' 'प्रकृतेर्महा' नित्यादि श्रुतिस्मृतयो बाधि- काः । नचात्राभिमानस्यैव हेतुत्वश्रवणाद्बाध इति वाच्यम् । अभि- मानस्यैकार्थसमवाय प्रत्यासत्त्या हेतुत्वकल्पनापेक्षया लाघवेन का रणस्य वृत्तिलाभै कार्यवृत्तिलाभस्यौत्सगिंकत्वेन च तदाश्रययोरेव