पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

स्याति' ततश्च प्रवर्तत इति लोकसिद्धम् । तत्र यो ऽयं कर्तव्यमिति चिनिश्चयश्चितिसन्निधानादापन्नचैतन्याया बुद्धेः सो ऽध्यवसायः, बुढ़ेर साधारण व्यापारः; तदरभे-भेदा बुद्धिः । स च बुद्धेलक्षणं समानासमान जातीयव्य- बच्छेदकत्वात् ॥

 तदेवं बुद्धिं लक्षयित्वा विवेकज्ञानोपयोगिनस्तस्या धमांन्सात्त्विकतामसानाह-धर्मों ज्ञानं विराग ऐश्वर्य-




स्य च सुतरां वृत्तेरग्रावच्छेदेन सन्चात्तादृशप्रतीत्यनुपपत्तिविर- हात् । नच मूले वृक्षः कपिसंयोगी नेतिप्रतीतिर्विशेषणीभूतसंयो- गात्यन्ताभावविषयिणीति वाच्यम् । भेदप्रतीतिमात्रोच्छदापत्तेः । नच गुणादौ संयोगवदन्योन्याभावप्रतीतेरयोगोलकादौ धूमादिम दन्योन्याभावप्रतीतेश्च बाधकामावात्तद्विषयकत्वमिति वाच्यम् । अ- त्रापि बाधकामावस्योक्तत्वात् ।

 समानासमानजातीयेति । समानासमानता च परार्थ- वापरार्थत्वाभ्यामित्यर्थः । धर्मनिरूपणे धर्मनिरूपणोपजीवकता- सूचनायार्याशेषमवतारयति । ।

 तदेवमिति । 'चोदनालक्षणोऽर्थों धर्म' इत्यनेन सुत्रेण धर्म स्वरूपं तत्प्रमाणे श्रुत्यथभ्यां निरूप्यते । यो धर्मः स चोदना- लक्षणः, चोदना-प्रवर्तकं निवर्तकं च वाक्यमेव-लक्षणं यस्येति श्रुत्या प्रमाणविधौ यथा चोदनागम्य एव धर्मों यागादिजन्यो नतु चैत्यवन्दनादिजन्य इति स्वरूपं सिद्ध्यति, तथा यः चोदनालक्ष- णः स धर्म इति स्वरूपविधावर्थात्प्रमाणमपि सिद्ध्यति । एवं चो- दुनामात्र लक्षणस्यानर्थहेतुहिंसादिजन्यस्य धर्मत्वं, तद्वाक्यस्य त- त्प्रमाणत्वं च माभूदित्यर्थशब्देन विशेष्यते । अर्थश्चाभ्युदयानिः श्रेय- से तत्साधन च, फले विध्यभावात् तत्साधनमेवार्थपदेन विवक्षि-

 सूत्राथांनुसारेण धर्मचक्षणमाह-धर्म इति । तथाचात्र चो-