पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
बुद्धिधर्मनिरूपणम् ।

म् । साविकमेतद्रूपम् ; तामसमस्माद्विपर्यस्तम्” इति । धर्मो ऽभ्युदयनिः श्रेयसहेतुः, तत्र यागदानाद्यनुष्ठानज- नितो धर्मो ऽभ्युदयहेतुः, अष्टाङ्गयागानुष्ठानजनितश्चानः श्रेयसहेतुः । गुण पुरुषान्यताख्यातिर्ज्ञानम् । विरागो वै- राग्यम् ‘‘रागाभावः ॥




दनालक्षण इत्यध्याहृत्य योऽभ्युदयनिः श्रेयसहेतुरूपो धर्मः स चौद- नालक्षण इत्येवामदं व्याख्येयम् । अन्यथा चैत्यवन्दनादिजन्यस्यापि निरासकहेत्वभावेन धर्मत्वापत्तेः । क्रमेण द्वयमुदाहरति-तत्रेत्यादि ।

 अवान्तरव्यापारत्वान्नापूर्वमभ्युदयनिः श्रेयसहेतुकप्रसिद्धि- विरहाञ्चान्तःकरणवृत्यादिरपि नेति पार्थसारथिमिश्रादयो व- दन्ति तन्मतं कटाक्षयन्नाह-योगदानाद्यनुष्ठानजनित इति । यथौदनकामः पचेतेल्यादौ धात्वर्थे प्रवृत्यर्थं कृतिसाध्यमिष्ट- साधनत्वं च विधिप्रत्ययेन बोध्यते । नच विक्लित्तिफलादौ साधन प्रवृत्या फलस्य साक्षात्कृत्या साधयितुमशक्यत्वात् साधनकृतित एव तत्सिद्धेश्च । इष्टाकाङ्क्षायां कामपदसमभिव्याहारात्काम्यत्वेन श्रुत औदन एवेष्टत्वेन सम्बध्यते तथा स्वर्गकामो यजेत इत्यत्रापि लि- ङा कृतिसाध्यत्वे इष्टप्रधानत्वे च बोधिते फलाकाक्षायाङ्काम्यत्वे- न श्रुतः स्वर्ग एवेष्टत्वेन सम्बध्यते ।।

 एवं कृति साध्यतेष्टसाधनत्वयोरभावस्य कलञ्जभक्षणादौ बा- धेन कलञ्जं भक्षयेदियादिनिषेधकवाक्यानामप्रामाण्यवारणाय ब- लवदनिष्टाननुबन्धित्वेनापि साधनं विशेषणीयम् । यार्ग विनापि गङ्गास्नानादिना स्वर्गोत्पत्या यागे स्वर्ग साधनत्वव्यभिचारवार- णाय विजातीयस्वर्गसाधनत्वं वक्तव्यम् । एवमप्यन्वक्षविनाशिनों यागस्य स्वाव्यवहितपूर्वक्षणावच्छेदेन स्वसमानाधिकरणाभावप्र- तियोगितानवच्छेदकधर्मवत्त्वरूपस्वर्गसाधनत्वबाधवारणाय याग- स्य स्वजन्योत्तरावस्था या सूक्ष्मा सैवापूर्वपदाभिधयाऽवश्यम-