ना । “यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादिति । सूत्रे त्वत्र क्रियापदं सम्बन्धपरं । “यजतिस्तु द्रव्यफलभोक्तृसंयो- गादेतेषां कर्मसम्बन्धा'दिति द्वितीयाध्यायसूत्रानुरोधात् । तथाच यजति चोदना-आख्यातान्तं यजेतति पदं द्रव्यदेवतासम्बन्धमभि- धत्ते । तत्र हेतुमाह-‘समुदाये कृतार्थत्वात् । तात्पर्येण समुदाये वृत्तित्वात्प्रत्यायनरूपकार्यकृतत्वात् । वेदेन तथैव निर्णया- दिति यावत् ।
नचायं प्रत्ययविशिष्टयज्यर्थ इति भ्रमितव्यं प्रत्ययार्थस्य कृ- तिसाध्यत्वादेरादर्शनात् । नचयजतीत्येव सामञ्जस्ये चोदना- ग्रहणं व्यर्थमिति वाच्यम् । यो द्रव्यदेवतसम्बन्धं करोति तेन यजि- चोदनार्थः सम्पादितो भवत्यत एवं धार्मिको भवतीत्येवं निजो- क्तार्थे तात्पर्यग्राहकत्वेन तस्य सार्थकत्वात् । नच समुदायवाच- कत्वे पुष्पबन्तपदाद्दिवाकरानिशाकरणेरिव द्रव्यादेः स्वातन्त्र्येण प्रतीत्यापत्तिरितिवाच्यम् । प्रातिस्विकरूपेण शक्यभावादित्येवं व्या- ख्यातं पार्थसारथिमिश्रेरिति तन्न । तन्निर्णायकवेदस्यानुपलम्भात् ।
ननु प्रक्षेपादेवरेव प्रधानत्वे तस्य चाध्वर्युकर्तृकत्वात्स्वामिकर्तृ- कत्वबोधकन्यायविरोधस्तथाहि-शास्रफलं प्रयोक्तरि तल्लक्षणत्वा- तस्मात्स्वयं प्रयोगे स्या’ दित्यत्र स्वर्गकामो यजेतेति सामानाधि- करण्येनात्मनेपदेन च कर्तुरेव फलावगमात्स्वर्गकामविशिष्टो यज- मान एव सर्वं कुयादित्याशङ्क्या परिक्रयद्रव्यपरिगृहीतानामध्वर्य्वा दीनामधिकारः, कुतः ? परिक्रयद्रव्यश्रवणात् । तञ्च कर्त्रन्तरसद्भा- वेऽदृष्टार्थ स्यात् । तद्ये माजीजनन्त तस्माद्दग्त्विभ्य एवे' त्यनेन य- ज्ञस्वरूपस्यात्मनो निष्पत्तिकर्तृत्वं निमित्तं तेभ्यो दक्षिणादाने नि- र्दिष्टं तदद्दष्टार्थे विरुद्ध्यते । यत्वर्थिनः साङ्गे कर्तृत्वं तत्तु प्रयोजकत्वे- नापि सम्भवति तत्प्रयोजको हेतुश्चे’ ति स्मरणात् तथाच ऋत्विग्भिः क्रियमाणेऽपि न विरुद्ध्यते, यथा राजपुरुषैः राज्ञः प्रेरणया कृते राज-
४०