पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
बुद्धिधर्मनिरूपणम् ।


रम्भववरणव्रतप्रमाणेषु यजमानं प्रतीया'दिनि कात्यायनमृत्राव पट्सृ यजमानं कर्तारं जानीयादिनि याज्ञिकसम्प्रदाय इत्यलमति- प्रसङ्गेन ।

 आसेचनाधिको यागो होमः । तदुक्तं जैमीनना--'तदुक्ते श्रवणाञ्जुहोतिरासेचनाधिकः स्यादिति सूत्रन्तु पात्नीवतोत्स- र्गांपेक्षया आसेचनमधिकं भिन्नं यस्मिन् म आसेचनाधिको यागः । जुहोतिर्होमः स्यात्कुतस्तदुक्ते यजत्यभिहिते यागे श्रवणादर्था- ज्जुहोतेरिति व्याख्येयं । अत्रासेचनपदं प्रक्षेपपलक्षणार्थं अन्य- था *रुतं जुहोति' इति कठिनद्रव्ये सप्तकपालकपुरोडाशेऽपि जुहोतिदर्शनेन तत्र सिञ्चनाभादव्याप्त्यापत्तेः । तथाच क्वचित्प्र- क्षेपसत्वेऽपि पात्नीवतादावभावाद्धोमाद्यागो भिः । नच होम यागादिभिन्नो भा भवत्विति वाच्यम् । इष्टापत्तेः । अतएव यजति- चोदित जुहोतिरनुवदतीति शाबरभाष्य सङ्गच्छते इत्याहुः ।

 उदङ प्राङ् वा तिष्ठन्नाहुतीः । इदं वा अनुवाक्याथ याज्याथ वषट्कारेणासीन आहुतीजुहोतीति भेदवादिनः ।।

 देवतालाभस्तु तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः । परिभाषया वेति । यथा आग्नेयोऽग्नीषोमी य इत्यत्र ‘सास्यदेवतेति देवताधिकारीयतद्धितात् । तथा'अग्नये दात्रे’ ‘इन्द्राय दात्र' इत्यत्र च तुर्थ्या । तथा सौम्योपरियागे 'इर्दविष्णुर्विचक्रमे' इत्यादिमन्त्रलि- ङ्गाद्विष्णोर्ब्रहणम् । यथा वा सर्वं गायत्रमाग्नेयमिति परिभाषया । तत्र पूर्वं पूर्वं प्रबलं श्रुत्यनुग्रहात् । इदंच तत्रैवानुसन्धेयम् । हविभक्तृत्वं देवतात्वमिति केचित् । इविर्निष्ठस्वत्वनिरूपकत्वरूपहविर्भोक्तृत्वस्य यजमानेऽतिव्याप्तिः । त्यागात्प्राक् अव्याभिश्च । द्रव्यान्तरे देवता- त्वाभावापत्तेश्च , हविःपदस्य द्रव्य सामान्यपरत्वं भागित्वस्य च त्यागजन्यकादाचित्कस्वत्वामरूपकत्वं विवक्षितम् । 'नयोषिद्भ्यः पृथग्दद्यादित्यादिना पार्वणादौ पत्या स्वत्वभागितया*त्रातिव्याप्तेः।