पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


ल्यग्रहणाभावस्य च त्वयैव निरस्तत्वात् । एतदस्मद्गर्भत्वेनाननुग- मस्य जातिविशषेणानुगमस्य च राज्ञो दण्डं ददातीत्यादानुपदोक्त- सिंहादिस्थले च तादृशजात्यनङ्गीकारेणातिव्याप्तिवारणस्य चौ- भयतुल्यत्वाञ्च । नच वित्तादौ तादृशजात्यभावेन दोषवारणे मूल्यग्रहणं विनेति व्यर्थमिति वाच्यम् । तस्य परिचायकत्वेन - क्षणेऽप्रवेशात् । नच भवन्मते उत्सर्गस्थले प्रतिग्रहपराङ्मुखस्थळे चोक्ताव्याप्तिस्तद्वस्थैवेति वाच्यम् । तत्रापि जात्यङ्गीकारादिति सम्प्रदायमतमेव स्वत्वमपि पदाथान्तरमिति दीधितिकारोक्तिं श्रद्ध- धानाः केचन परिष्कुर्वन्तीति ।।

 तदपरे न क्षमन्ते । जातिव्यञ्जकविशेषानिरुत्या जात्यसम्भवे उभयमतेऽप्युक्तदोषानिवृत्तेः ।।

 यत्त पदार्थखण्डने दीधितिकाराः-एवं स्वत्वमपि पदार्थान्तरं । यथेष्टविनियोगयोग्यत्वं तदिति चेत्कोऽसौ विनियोगो भक्षणादि- कामिति चेत्परकीयेऽप्यन्नादौ तत्संभवात् । शाखानिषिद्ध तदितिचे कितच्छास्त्रं ‘परस्वं नाददीते' त्यादिकमिति चेत् । स्वत्वाप्रतीतौ कथं तस्य प्रवृत्तिस्तस्मात्स्वत्वमतिरिक्तमेव प्रमाणं च ‘परस्वं नाद- दीते'यादिकं शास्त्रमेव । तच्च प्रतिग्रहोपादानक्रयपित्रादिमरणेर्ज- न्यते दानादिभिश्च नाश्यते कारणानामेकशक्तिमत्वात्कार्याणां वै- जात्याद्वा कार्यकारणभावनिर्वाहि इति ।

 एतच्च व्याख्यातं रघुदेवभट्टाचार्यैः । नैयायिकानां स्वत्वत्वेन व्यवहियमाणं यत्तदपक्षयातिरिक्तमित्यर्थः । तद्ध्यवह्रियमाणं दुष- यति तत्संभवादिति । भक्षणादिसम्भवात् । तत्रापि स्वत्वापत्या दोषसम्भवापत्तिरित्यर्थः । नाददीतेत्यादिना स्वं दद्यादिति ग्राहं । शाखानिषिद्धं भक्षणादिविनियोगमपि दूषयति-स्वत्वाप्रतीता- विति । तस्योपदर्शित शास्त्रस्य प्रवृत्तिः परकीयस्वत्वाश्रयादाननिषे- धवोधकत्वं । तथाच स्वत्वज्ञाने सति तथााविधशास्त्रादुपदार्शीतनिषे-