पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
बुद्धिधर्मनिरूपणम् ।

ने भाविपुत्रस्य तत्समये शरीरानुत्पत्या तज्जन्यपुंस्त्वरूपपुत्रत्वा- भावात् । भाविशरीरोयलक्षितस्यात्मनः स्वत्वाङ्गीकारे साम्प्रतिक- चैत्रपुत्रशरीरावच्छिन्नस्य भाविमैत्रक्षेत्रजशरीरावच्छिन्नस्यात्मनो मैत्रमरणे तद्धनस्वत्वापत्तेः । ।

 यत्तु स्वत्वम्पदार्थान्तरं । तद्धि न सामान्यादित्रयात्मकं । उत्पत्तिविनाश शालित्वात् । नापि दुव्यादित्रयात्मक गुणेऽपि वृत्ति वात् । नच स्वत्वस्य गुणवृत्तित्वे मानाभावः । अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणातीत्यादावारुण्यादेरपि दुव्यवत् क्रयसाधनवप्रतीतेः । नच स्वत्वानाश्रयस्य साधनत्वं युज्यते परवस्तुस्वत्वप्रयोजकपरस्वत्वापादनार्थकत्यागकर्मत्वाश्रयस्यैव क्र- यसाधनत्वात् । तादृशत्यागश्च स्वत्वाश्रयस्यैव सम्भवतीत्यर्थः । अतएव गुणोत्कर्षेण मूल्योत्कर्षः । ‘एवं पुण्यदःपुण्यमामोतीति पु- येऽपि स्वत्वमन्यथा दानासम्भवादतएव तस्य विक्रयमपि कुर्वंति आरुण्यस्य क्रयसाधनत्वं चाश्रयद्वारेति ।

 तदपि न उक्तरूपेणैवोपपत्तेः । पुरुषापेक्षया विषयाणां ब- हुत्वेऽपि तत्स्वं ममस्वं ब्रह्मस्वभित्यादिप्रतीत्या विषयेष्वेव स्वत्वम- क्वीक्रियते । न चैवं विशेषणताविशेषसम्बन्धेन स्वत्वं प्रति इच्छा- विशेषादिरूपक्रयादेविषयत्वसम्बन्धेन कारणत्वसम्भवेऽपि पितृम- रणादेर्निर्विषयतया कारणानुपपत्तिरिति वाच्यम् ।

 उक्तक्रयादेः पुरुषनिष्ठसमवायरूपप्रत्यासत्यङ्गीकारेऽपि पितृ मरणादेः पुत्रे समवायेनाभावादुक्तदोषानिवृत्तेः । पुत्रयं पितृस्व- त्वसमानाधिकरणपितृमरणसमानकालीनमिदं मदीयं पैतृकं वेति ज्ञानन्तद्विषयत्वरूपसम्बन्धनिवेशे यदा पितृमरणं पुत्रेणाज्ञातं तदा तपितृस्वर्णादिकं विनियुञ्जान उदासीनः प्रत्ययादासादयेञ्च ददतो विधिबोधितं फलमतः पितृस्वत्वसमानाधिकरणपितृमर- णसमानकालीन ज्ञानविषयत्वमेव निवेश्यं, नतु पुत्रीयत्वमपि ज्ञाने,