हारधारणाध्यानसमाध्याख्यानि । तत्राहिंसा सत्यास्तेयब्रह्मचर्यायप रिग्रहा यमाः । तत्र यत्किञ्चित्प्राणिमरणानुकूलव्यापारस्य सर्वत्र सुलभत्वेन तत्मामान्यभावो वाच्यः सच न सम्भवति हस्तपा- दादिना सूक्ष्मप्राणिनां नाशसम्भवात् सुषुत्प्याद सामान्यभाव- सम्भवाञ्चातः सर्वकालीनसर्वप्राणिमरणोद्दॆश्यकव्यापारसामान्या- भावोऽहिंसा अत एव योगभाष्ये तत्राहिंसा सर्वथा सर्वदा भूता- नामनभिद्राह इति ।।
सत्यं च वाक् सा चोञ्चार्य माणवाक्यं । तत्र सत्यत्वं यथा- दृष्टानुमिताद्यन्यरूपेण बुबोधयिषयानु~चार्य माणत्वं सति उच्चा- र्यमाणवाक्यार्थगोचर भ्रमप्रमादाद्यजन्यत्वे च सति करणापाटवा- दिदोषाभाववति प्रकृतवाक्यजन्यशाब्दधीमत्वप्रकारकतद्वाक्यव- क्त्रिच्छाविषये प्रतिपत्तिजनकत्वं । द्रोणाचार्येणायुष्मन्सत्यधन अ- श्वत्थामा हत इति स्वतनयाश्वत्थाममरणं पृष्ठस्य युधिष्ठिरस्य ह- स्तिमनुसंधायार्धसत्यं हतंऽश्वत्थामा इति प्रतिवचनेऽतिव्याप्तिवा- रणायांद्यं सत्यन्तं । वक्तृभ्रान्तिजेऽतिव्याप्तिवारणाय द्वितीयं । पार्थान्प्रतिम्लेच्छभाषावाक्येऽतिव्याप्तिवारणाय जनकत्वान्तं । करणापाटवादिदोषवत्पुरुषबुबोधयिषयोचार्यमाणेऽव्याप्तिवारणाय करणापाटवादिदोषाभाववतीतिसम्बोध्य पुरुषविशेषणं । असम्बो- ध्यपुरुषबोधजनके उक्तसम्बोध्यपुरुषबोधाजनकेऽतिव्याप्तिवारणाय प्रकृतेत्यारभ्य जनकत्वान्तं । करणापाटवञ्चेच्छाविषयीभूतवर्णानुकूल- करणसंयोगानुत्पादकालीनतदनुकूलकरणसंयोगः। करणं कण्ठादि ।
योगभाष्ये तु सर्वभूतोपकारार्थमिति प्रतिपत्तिविशेषणमुक्तं । यदि चैवमभिधीयमाना भूतोपघातपरैव स्थान सत्यं भवेत्तेन पुण्या- भासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्तस्मात्परीक्ष्य सर्वभूत- हितं सत्यं ब्रूयादिति । एवं च तस्करैः सार्थगमनं पृष्टस्य सत्यतया सार्थगमनबुबोधिषयोञ्चार्यमाणा वागपि नसत्येत्यर्थः । यथार्थतात्पर्य-