पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

परास्तम् ।।

 अवच्छिन्नत्वं तृतीयार्थः । तथाचैकैको देशादिभिः परिच्छिन्नः परिदृष्टः स्वभावसिद्धरेचके नासाग्रसम्मुखे द्वादशाङ्गुलिपरिमितो निवातपदेशे इषीकातूलादिक्रियानुमितो बाह्यः । एवप्रान्तरोऽपि ना- भ्यादिप्रदेशक्षोभेणापादतलमस्तकं पिपीलिकास्पर्शदर्शनेनानुमितः । प्राणबाह्यवृत्यवधानेन मात्रादिरूपकालावच्छिन्नोऽनुमितः । एक- द्विसङ्ख्याद्यवच्छिन्नः प्रत्यक्ष एव । यद्यपि कुम्भके देशविशेषः स्प- ष्टो नावगम्य्ते तथापि घनीभूनतूलापिण्डदेशवदत्रापि घनीभूत- प्राणदेशोऽवगन्तव्यः । सोऽयं दिवसमामादिक्रमेणाभ्यस्यमानोऽप्र- सार्यमाणस्तुलपिण्ड इव स्वाभाविकदेशादिव्याप्यतामपेक्ष्यट्त्रिं विंश- दंगुलिपरिमिताधिकदेशकालव्याप्यतया दीर्घः परमनैपुण्यसमधि- गमनीयतया सूक्ष्मश्च भवतीति व्याख्येयम् ।

 इन्द्रियाणां स्वस्वविषयै शब्दादिभिरसम्प्रयोगः प्रत्याहारः । ननु ’स्वस्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्र- त्याहार' इतिसूत्रविरोधः । तथाहि-निमित्तत्वं सप्तम्यर्थः शब्दस्पर्शा- दिविषयासम्प्रयोगनिमित्तको यश्चित्तस्य स्वरूपानुकारश्चित्तस्वरूपस्य विषयाकारराहित्यरूपनिरोधः सच चित्तमेवात इवेति । तथाच द्व- योर्निरोधहेतुश्च प्रयत्नस्तुल्य इति । तथाचविषयासम्प्रयोगनिमित्तक- स्य चित्तनिरोधसदृशनिरोधस्य प्रयाहारत्वबोधनाद्विरोध'इति चेत् ।

 न । सप्तम्यर्थस्य चित्तस्वरूपानुकारे एवान्वयात् । ध्यायतों विषयान् चित्तस्य निरोधं विना निरुद्धान्यपीन्द्रियाण्यनिरुद्धानीव सम्भवन्तीत्यतः सादृश्यकथनेन तन्निरोधपूर्वक एवं मुख्यनिरो- धः सम्भवतीति सुचनेन तत्रैव तात्पर्यात् ।

 विद्यारण्यस्वामिनस्तु ।


 शब्दादिविषयान्पञ्च मनचैवातिचञ्चलम् ।  चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥