इति श्रुनिमुदाहृत्य शब्दादयो विषय येषां श्रोत्रादीनां ते-
श्रोत्रादयः पञ्च । मनः धष्ठानामतेषामनात्मरूपेभ्यः शब्दादिभ्यो
निवर्तमानानामात्मरश्मित्वेन चिन्तनं प्रत्याहारः स इत्याहुः ।।
आध्यात्मिके आधारनाभिचक्रहृदयमध्यब्रह्मरन्ध्रादिदेशवि- शेचे बाह्ये च भगवद्रूपादौ चित्तसम्बन्धो धारणा 'देशबन्धश्चित्तस्य धारणे'ति सुत्रणात् । बन्धः सम्बन्धः प्रत्ययान्तरानन्तरितत्वे सति धारणाश्रयदेशाभिन्नैकतत्वविषयक प्रन्ययप्रवाहो ध्यानं "तत्र प्रत्ययैक तानता ध्यान" मिात सूत्रणात् । तत्र तस्मन्देशे विषयत्वं सप्तम्यर्थः । तथा च तद्विषयक एकतत्वविषयकपवाहश्चेत्युक्तेऽर्थाद्यद्यद्वाक्यं तत्त- त्सावधारणमिति न्यायाचोक्तार्थलाभ इति । अत एव ‘प्रत्ययान्त- रेणापरामृष्ट ध्यान’ मिति भाष्यम् । ध्येयाकारस्यैवावभासः समा- धिः । नच ध्यानलक्षणमत्रातिव्याप्तम् । तादृशप्रत्ययप्रवाहस्यात्रा- पि सत्त्वादिति वाच्यम् । ध्यातृध्यानाद्यवभासत्वे सति तादृश- प्रत्ययप्रवाहो ध्यानमिति विवक्षितत्वात् । अत्र ध्येयाकारप्रत्यय प्रवाहसचेऽपि तदवभासाभावात् ध्याने च तृतीयावभाससत्त्वा- झाव्याप्तिः,
ननु समाध्येयाकारवृत्त्यसत्त्वे ध्येयावभासासम्भवः । तत्सत्त्वे तदवभासार्थमनवस्थाभिया नृत्यन्तरानभ्युपगमेन ध्यात्रवभासं विना ध्येयावभासासम्भवेन च तृतीयावभासावश्यकत्वात्कथं ध्ये यांकारस्यैवावभास इति चेन्न । ध्यातृध्यानयोरवभासमत्त्वेऽपि तदा ध्येयस्वभावावेशात् ध्यातृत्वादिनानवभासनात् । अतएव तदेवार्थ- मात्रंनिर्भासं स्वरूपशुन्यमित्र समाधि' रिति सूत्रे शुन्यमवेत्युक्तम् । तत्सत्वेऽपि प्रयत्वादिना भातीत्यर्थः ।।
ब्रह्माकारमनोवृत्तिप्रवाहोऽहं कृतिं विना ।
सम्पज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षजः ॥ १ ॥
इत्यभियुक्तोक्तेश्च ।