पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

 इत्युक्तानि योगाङ्गान्यदृष्टद्वाराऽशुद्ध्या वियोजयन्ति बुद्धिस- त्वं । ततश्च पञ्चपन्द्रियसयमादिन्द्रियजयो भवति । तथा हि ग्र- इणस्वरूपास्मितान्वयार्थवत्त्वानि पञ्चरूपाणि । ग्रहणमिन्द्रियाणां विषयाकारा परिणतिः । न च ग्रहणं नाम शब्दादिविषयकज्ञानं, तञ्च मनःपरिणामः । श्रोत्रादि तु द्वारं । अन्वयव्यतिरेकाभ्यां ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्भीर्धीरित्ये तत्सर्वं मन एव’ ‘मनएव मनुष्याणां कारणं बन्धमोक्षयाः । बन्धाय विषयासक्तं मोक्षाय निर्विषयं स्मृत' मियादि श्रुतिस्मृतिषु मनसो धीसमानाधिकरणस्य विषयाकारपरिणतिमत्त्वरूपविषयासक्तत्वस्य च दर्शनादिति वाच्यम् । व्यवहिताविप्रकृष्टानां ग्रहणवारणाय सन्नि- कर्पोऽवश्यं वाच्यः। सचान्यतरक्रियां विना न सम्भवति । तत्र विष- याणां तत्र स्थितानामेव दर्शनेनेन्द्रियेष्वेव क्रिया वाच्या साचेद्यदि गोलकादिविभागजनिक तर्ह्यन्धत्वादिप्रसङ्गन तत्र स्थितनामेव वि- षयपर्यन्तं परिणतेरवश्यं वाच्यत्वात् । ‘प्रज्ञया वाचं समारुह्य वाचा स- वणि नामान्याप्नोती' यादि श्रुतेश्च । नच शब्दस्य वचितिरङ्गन्यायेन श्रोत्रे समवायेनोत्पत्तिरिति शङ्क्यं । समवायस्य पूर्वं दूषितत्वात् । भेरीशब्दो मया श्रुत इत्याद्यनुभवस्य बाधापत्तेश्च गन्धस्याप्याश्रय- गमनं विना गमनासम्भवेन आश्रयस्य गमनं वाच्यम् । तञ्च ने स- म्भवति तदतिरिक्ताश्रयस्य सच्छिद्रतापत्तिः। परमाण्वन्तराणामना- रम्भकत्वात् आरम्भकत्वे न्यूनाधिकभावापत्तेर्ब्रह्मणापि वारयितु- मशक्यत्वात् । छिन्नहस्तादेः परमाण्वन्तरैरारम्भापत्तेश्वालम्प्रसङ्गाग- तविचारणास्वरूपं पुनः ।।

 अहङ्कारसवकार्य प्रकाशात्मकन्द्रव्य मिन्द्रियं । अस्मिताहङ्कार- सामान्य तद्विशेष इन्द्रियाणि तत्कार्यत्वात्तत्सामान्यमिन्द्रियाणा- मित्यर्थः । अन्वयत्वं पुरुषशेषत्वं पुरुषार्थवत्त्वामिति यावत् इति- पञ्चस्विन्द्रियरूपेषु यथाक्रमसंयमाद्यथाक्रमरूपजयादिन्द्रियजयः प्रा-