दुर्भवति योगिनः । पञ्चरूपेन्द्रियजयाद्देहस्य मनोज वित्वे, विदेहा-
नामिन्द्रियाणामाभिमतविप्रकृष्टदेशसकलमुक्ष्मविषयापेक्षो वृत्तिला-
भः, सर्वविकारवशित्वरूपप्रधानजयश्चेत्येतास्तिस्रः सिद्धयः प्रादु-
भंवन्ति योगिनः ।।
तथाचोक्तं पञ्चरूपेन्द्रियेषु संयमादेव स्वसिद्ध्यु पकारसम्पादि- तश्रद्धाद्वारेण निर्धूरजस्तमोमलबुद्धिसत्वस्य सत्वपुरुषान्य- ताख्योतिर्भवति । तस्या अवान्तरफलं सर्वज्ञातृत्वं क्लेशादिराहि- त्यं तद्वैराग्यात्कैवल्यं । तथाहि-क्लेशकर्मक्षये सति सत्त्वस्यायं वि- वेकप्रत्ययः । सत्वं हेयपक्षे न्यस्तं । पुरुषश्चापरिणामी शुद्धोऽन्यः सत्वादित्येवं विरज्यते विरजमानस्य केशकर्मबीजानि दग्धशालि- बीजकल्पान्यप्रसवसमर्थान्यस्तं गच्छन्ति पुरुषस्तापत्रयं न भुङ्क्ते चरितार्थानापप्रतिप्रसवे पुरुषस्यात्यान्तिको गुणवियोगः कैवल्यं तदा स्वरूपप्रतिष्ठाविति शक्तिरेव पुरुष इति अधिकं योगभाष्ये द्रष्टव्यम् ॥ १ ॥
ज्ञानस्य विषयविषयकस्य निरवधिकसात्विकरूपत्वाभावान्मो- क्षेऽनुपयोगाञ्च मोक्षोपयोगिज्ञानपरतया ज्ञानपदं व्याचष्टे-गुण- पुरुषेति । गुणः प्रधानं तयोरन्यता परस्परस्मिन्परस्परप्रतियो- गिको भेदस्तस्य ख्यातिविवेकः । ननु यदि प्रधानपुरुषान्यताख्या- तिमोक्षहेतुस्तहिं देहाद्याभमानसत्वेऽपि मोक्षः स्यात्सच न सम्भ- वति । 'नह वै सशरीरस्य प्रियाप्रिययोरपहातरस्ति' इत्यादि श्रुति- विरोधादिति चेन्न । कूटस्थत्वादिधमज्ञानात्प्रधानकारणाविवेकना- शे तज्जन्यपरिणामादिकायाविवेकनाशस्यापि सम्भवात् । कार- ‘णनाशे कार्यनाशस्यावश्यकत्वात् ।
नच देहाद्याभिमानातिरिक्तप्रधानाभिमाने मानाभावः। अहमज्ञ इत्याद्यभिमानानां प्रधानविषयत्वं विनानुपपत्तिः । प्रधानाभि- माननाशे बुद्ध्याद्यभिमाननाश इत्यस्मिन्नर्थे सूत्रं च---‘प्रधानन्या-