पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
बुद्धिधर्मनिरूपणम् ।


सा वशीकरसंज्ञा । यामचभगवान् पतञ्जलिर्वर्णयाञ्चकार- "दृष्टानुश्रविकविषयवितृष्णस्य वशीकर संज्ञा वैराग्यम्" इति(योगसूत्र-१ । १५) सोऽयं बुद्धिधर्मो विराग इति ।

 ऐश्वर्यमपि वुद्धिधर्मो, यतोऽणिप्रदिप्रादुर्भावः । (१)अत्राणिमा-अणुभावो यतः शिलामपि प्रविशति । (२) लघिमा-लघुभावः, यतः सूर्यमरीचीनालम्ब्य सू- र्यलोकं याति । (३) गरिमा गुरुभावः, यतो गुरुर्भवति । (४) महिमा महतो भावः, यतो महान् भवति । (५) प्राप्तिः, यता ऽङ्कल्पग्रेण स्पृशति चन्द्रमसमः । ( ६ ) प्रा-




त्कथनं त्वितः परमुत्कृष्टवैराग्यं नास्तीदमेव परमिति सूचनाय । अतएव पूर्वोक्तत्रयाणामात्रैवान्तर्भावं मनसि निधायदमेव पतञ्ज- लिरपि वर्णयाञ्चकार । सूत्रं पठतिं दृष्टेति । सूत्रं तु उक्तविषय- सम्प्रयोगेऽपि वितृष्णस्य रागद्वपादिरहितस्य चित्तस्य वशीकार- संज्ञेति व्याख्येयम् । ननु भोगादेवेन्द्रियादिक्षये वैराग्यं भवत्येवेति तु न शङ्क्यं । इन्द्रियाद्यन्तररोत्पत्तौ रागादिसम्भवात् । अत एव


 न जातु कामः कामानामुपभोगेन शाम्यति ।।
 हविषा कृष्णवर्त्त्मेव भूय एवाभिवर्धते ॥ १॥


 ‘नभोगाद्रागशान्तिर्मुनिव’ दित्यादिश्रुतिसूत्रादि सङ्गच्छते । किन्तु दोषदर्शनात् । तथा च सूत्रं दोषदर्शनादुभयोः सूत्रं तूभयोः प्रकृतितत्कार्ययोः संयोगात्पुरुषस्य नरकपातगर्भवासादय इति व्याख्येयम् ।। ३ ।।

 उक्तामणिमादिसिद्धि व्याकरोति । अत्रेत्यादिना । अशुभ- वनफलं तत्र प्रमाणं च दर्शयति-यतः शिलामिति । अणुत्वं विना शिलाप्रवेशानुपपत्या तत्कल्प्यते इत्यर्थः। एवमग्रेऽपि । अ- णिमलाघिम्नोर्भेदमाह-लघुभाव इति । तथाच गुरुतदभावकृतो वि- शेष इत्यर्थः । महानिति । स्वसप्तवितस्तिपरिमितो इस्त्याद्या-