पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
अहंकारकार्यनिरूपणम्



 अभिमानो ऽहङ्कारः तस्माद् द्विविधः प्रवर्त्तते सर्गः ।
 एकादशकश्च गणस्तन्मात्रः पञ्चकश्चैव ॥ २४ ॥


 "अभिमान" इति अभिमानो ऽहङ्कारः। यत् ख- ल्वालोचितं मतं च तत्र "अहमधिकृतः" "शक्तः खल्व- हमत्र’ ‘मदर्था एवाभी विषयाः ‘मत्तो नान्यो ऽत्राधि- कृतः कश्चिदस्ति’ ‘अतो ऽहमस्मि' इति यो ऽभिमानः सो ऽसाधारणब्यापारत्वादहङ्कारः । तमुपजीव्य हि बुद्धि- रध्यवस्थति-“कर्तव्यमेतन्मया' इति निश्चयं करोति ।

 तस्य कार्यभेदमाह-“तस्माद्विविधः प्रवर्तते सर्गः" इति । प्रकारद्वयमाह-“एकादशकश्च गणः” इन्द्रियाह्णः, तन्मात्रः पञ्चकश्च एवं बिविध एव सर्गो ऽहङ्कारात्, न त्वन्य इति "एव" कारेणावधारयति ।। २४ ।।

आलोचितमिदंत्वेनेन्द्रियादिनाऽवगतं । मतं इदमेवं नैवमिति मन- सा विकल्पितं । अधिकृत इत्यस्यार्थमा-शक्तइति । शक्त- त्वं चास्मत्कृतिसाध्योऽयमित प्रत्ययाश्रयत्वं । मदर्था अस्मच्छष- भूताः । अतोऽहमित्यत्रात्राधिकृत इत्यनुषञ्जनीयं । अध्यवसायो बुद्धिरितिवदत्रापि धर्मधम्यभेदाभिमानोऽहंकारः । यत्खल्वालो- चितं मतं च तत्राहमधिकृतः शक्तः खल्वहमत्र । मदर्था एवामी विषयाः मत्तो नान्योऽत्राधिकृतः कश्चिदास्त । अतोऽहमस्मीति यो- ऽभिमानः सोऽसाधारणव्यापारत्वादहंकारस्तमुपजीव्य हि बुद्धिर- ध्यवस्यति कर्तव्यमेतन्मयेति तस्य कार्यभेदमाह-तस्मादद्विविधः प्रवर्ततेसर्गः । प्रकारद्वयमाह-एकादशकश्च गणः । इन्द्रिया- दयः तन्मात्रपंचकश्चैवं द्विविध एव सर्गोऽहंकारान्नत्वन्य इति एवे- त्यनेनावधारयति । भेदोपचार इत्याह सहति । असाधारणच्या- पारत्वादिति कथनं तूपचारे निमित्तताद्योतनाय । एतस्याबुद्धि-


  ४३