पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

पूर्वकप्रवृत्तिव्यतिरिक्तस्य हेतुत्वमाह-तमिति-अहकारं । इन्द्रिया- णां वक्ष्यमाणत्वादाइ-इन्द्रियाह्वइति । इन्द्रियमित्याह्वा नाम यस्य स इन्द्रियाह्वः ॥

 नचन्द्रियाणामभौतिकत्वे । मानाभावः अनुमानादेर्मानवा- त् । तथाहि बहिरिन्द्रियाणि न भौतिकानि इन्द्रियत्वाद मनोवत् । बहिरिन्द्रियत्वं च विशेषगुणवदिन्द्रियत्वं मनोभिन्ने- न्द्रियत्वं वा । इन्द्रियत्वं च न जातिः । पृथिवीत्वादिनी सा- कुर्यात् । किन्तु स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्वं । आ- मन्यतिव्याप्तिवारणाय स्मृत्यजनकेति । अजनकत्वं स्वरूपयोग्य- त्वघाटितं ग्राह्यमतो न संयोगव्यक्तिविशेषमादायोक्तातिव्याप्तिताद- वस्थ्यम् । कालादावतिव्याप्तिवारणाय जानकारणेति । चक्षुः सं- योगादिकमादाय घटादावतिव्याप्तिवारणाय मन इति । मनः सं- योगाश्रयत्वं च मनोनिरूपितसंयोगाश्रयत्वमनोविशिष्टसंयोगाश्र- यत्वसाधारणमनोविशिष्टसंयोगाश्रयत्वमतो न अव्याप्तिः । ज्ञान- पदं च प्रमापरमती न स्वप्नवदृनाड्यामतिव्याप्तिः ।।

 नचन्द्रियत्वे ज्ञानेन्द्रियमनोयोगत्वादिना कारणताग्रहो, गृही- तायां च संयोगकारणतायामिन्द्रियत्वग्रह इयन्योन्याश्रय इति वाच्यम् । चक्षुर्मनोयोगत्वादिना कारणताग्रहात् । नचाप्रयोजक- त्वं निरुपधिसहकारस्यानुकूळत्वात् । मनसो भौतिकत्वापत्तेश्च । नच घाणेन्द्रियं पार्थिवं गन्धेतरगुणाव्यञ्जकत्वे सति गन्धव्यंजक- द्रव्यत्वात् । वायुपनीतसुरभिभागवदित्यनुमाने सत्प्रतिपक्षतेति वा- च्यं । इदं यदि पार्थिवं स्यात्तदोद्भूतरूपरसगन्धस्पर्शान्यतमवत्स्या- दित्यादिप्रतिकूलतर्कग्रस्तत्वेन तुल्यबळत्वाभावात् । नचापाद्ये इष्टाप- त्या दुष्टोऽयं तर्क इति । भिन्नदेशावच्छिन्नद्रव्यगन्धग्रहणेन तत्रमह- त्वसिद्ध्या तस्य प्रत्यक्षत्वापत्तेः । स्थूळावयवावच्छिन्नगन्धोप्रल- ब्ध्यापि महत्वस्य साधनत्वेन प्रत्यक्षापत्तेर्दुर्वारत्वाञ्च । उपाध्यभा-