पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
मङ्गलाविचारः ।

पशुपुत्राद्यफलकत्ववदेवामुष्मिकसमाप्तिकामनां विनाऽपि शिष्टन क्रियमाणतया मङ्गलमामुष्मिकसमाप्त्यफलकं स्यात् । त था च व्यभिचारानिश्चयेनानुमित्यनुत्पत्त्यैहिकसमाप्त्यं फलकत्वापत्तेः। तृप्तिकामनया क्रियमाणोऽपि मङ्गले समाप्त्यफलकत्वसम्भववेनाप्रयोकत्वाच्च ।

यदुक्तम् अपरिचितानुपूर्वीकत्वेनाप्रमापकत्वम्, तत्रोच्यते- तदर्त्थज्ञापकत्वज्ञानस्यैव प्रमापकत्वे प्रयोजकत्वम् । आनुपूर्वीपरिचयस्य तत्रैवोपयोगात् । न चानुपूौं विना तदर्थज्ञा- पकत्वज्ञानस्यैवासंभव इति वाच्यम् । तदर्थज्ञापकत्वेनैवानुमिताग- मस्य सिद्धौ, धर्मिग्राहकमानेनैव तदर्थज्ञापकत्वसिद्धावानुपूर्वीप रिचयस्यानुपयोगात् । अधिकं त्वन्यतोऽवधेययम् ।

न च महृतां वाचस्पतिमिश्राणां श्रुतिपारङ्गतानां ख्यात्यादि- तुच्छफलकोपजीव्यमङ्गलकरणमनुचितमिति शङ्क्यम् । मोक्षज्ञानो पयोगिमननादिमुख्यप्रयोजनस्य सम्भवात् । ख्यातेर्नान्तरीयकत्वादित्यर्थः ।

न जायते इत्यजा नित्येति यावत् । नित्यत्वकथनं तु-सर्व- कारणत्वोपपत्तयेऽनवस्थाभावाय च । परमाणूनां निराकरणाय तां विशिनष्टि #एकामिति । सजातीयद्वितीयराहितामित्यर्थः ।

सर्वकारणत्वोपपत्तिरित्याशङ्क्याह # लोहितेति । सत्वरजस्तमोगु- णात्मिकामित्यर्थः । तथा च गुणानां भेदान्न दोष इत्यर्थः । लो- हितशब्दवाच्यरजोगुणस्य प्रवर्तकत्वेन प्राधान्यात्प्रथमममनिर्द्देशः ।

न च लोहितशुक्लकृष्णशब्दानां रक्तादिगुणपरत्वात्कथं तै रजोगुणादिलाभ इति वाच्यम् । रञ्जनप्रकाशावरणात्मकत्वगुण- योगेन गौण्या तल्लाभसंभवात् ।

ननु गौणी वृत्त्तिरेव न सम्भवति-तथाहि-न तावल्लक्ष्यमा-