पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

चारः । परमाण्वाद व्यभिचारवारणाय विशेष्यं शेर्ष पूर्ववत्तथा चैत्यनेन सत्प्रतिपक्षेतेति चेत् ।।

 न। इदं यदि जलीयं स्यात्तदोद्भूतशीतस्पर्शवत्स्यात्प्रसिद्धज- लवदित्यादिप्रतिकूलतर्कग्रस्तत्वेन तुल्यबलत्वाभावात् । नचेष्टाप त्तिः । परस्परभिन्नद्रव्ययोः रसग्राहकत्वेन महत्त्वसिद्धया तुच्छीत- स्पर्शस्य प्रत्यक्षत्वापत्तेः । इदमभौतिकं इन्द्रियत्वान्मनोवदि- त्यादिना सत्प्रतिपक्षितत्वाच्च । विपक्षे मनसोऽपि पार्थिवत्वापत्ति- बांधिका । नचा'न्नमयं हि सोम्य मनस्तेजोमयी वाक’ इत्यादिश्रुत्या मन आदेर्भौतिकत्वावगमादिष्टापत्तिरिति वाच्यम् । मन आदे्: भूतसंसृष्टतयैव स्थितेः श्रुतरन्नाद्यधीनत्वपरवात् । अतएव पृथि- वीमयं हि सोम्व मन इति नोक्तम् । तदधीनानां तदात्मत्वे तेषां- जलाद्यधीनत्वदर्शनेन तदात्मकत्वापत्तेः। "स ईक्षाञ्चक्रे कस्मिन्वह- मुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्प्रतिष्ठिते प्रतिष्ठास्यामीति' ’सप्राणमसृजत प्राणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमत्राद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु नामचे’ ति प्र- श्नोपनिषदि मनोऽन्नयोः ब्रह्मणः सृष्टिश्रवणाञ्च । भूतानामपि हि- रण्यगर्भसंकल्पजन्यतयाऽन्नस्य मनोजन्यत्वाञ्च ।

 ननु श्रोत्रेन्द्रियं शब्दगुणवत् तद्ग्राहकत्वात् यद्यद्गुणग्राहकं तज्जातीयगुणंवद्भवतीति नियमात् । साजात्यं च ग्राह्यतावच्छेद- करूपेण बोध्यम् । शब्दवत आकाशत्वात्तथाचेत्यनेन सत्प्रतिपक्ष- तेति चेन्न । उक्तनियमस्य मनसि व्यभिचारेण तुल्यबलत्वाभावात् । श्रोत्रं स्वगुणाग्राहक इन्द्रियत्वात् मनोवदित्यनेन सत्प्रतिपक्षि- तत्वाच्च । नच योग्यविशेषगुणशून्यत्वमत्रोपाधिरित वाच्यम् । योग्यविशेषगुणशून्यत्वस्याप्यनुमानात् ।

 इन्द्रियाणि न भौतिकानि इन्द्रियत्वान्मनोवदित्यादिविरो- धाञ्च । नच मनसोऽपीन्द्रियत्वात्कथं दृष्टान्ततेति वाच्यम् । पक्षै-