स्यादेतत्-अहङ्कारादेकरूपात्कथं जडप्रकाशकौ ग-
णौ विलक्षणौ भवत इत्यत आह-
सात्त्विक एकादशकः प्रवर्तते वैकृतदिहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥ २५ ॥
"सात्त्विक” इति । प्रकाशलाघवाभ्यामेकादशक
इन्द्रियगणः सात्विको वैकृतात्सात्विकादहङ्कारात्प्रवर्त-
ते । भूतादेस्त्वहङ्कारात्तामसात्तन्मात्रो गणः प्रवर्तते ।
कस्मात्? यतः "स तामसः"एतदुकम्भवाति ‘यद्येप्येको
क्षितमतो न शरीरेण व्यभिचारः ।
यत्तु । रूपवत्वव्याप्यघटसाक्षात्कारकारणतावच्छेदकवत्त्वादि- त्यर्थः । तेन शरीरे व्यभिचारस्तत्र तदवच्छेदकशरीरत्वस्य वाय- वीयशरीरेऽपि वृत्त्तेरिति ।।
तन्न । एवमप्यसिद्ध्यापत्तेः । तदवच्छेदकगोलकत्वस्य वायवीय- यगोलकेऽपि दृतेः । तेजः संयोगस्य तेजस्यपि सत्वान्न तत्र व्यभि- चारः । नचतेजःप्रतियोगिकसंयोगस्य तेजस्यसत्वाद्व्यभिचारस्तद- वस्थ एवेति वाच्यम् । आलोकवद्भूतले घटो यत्रानीतस्तत्रालोक- प्रतियोगिकसंयोगाभावेन घटापत्यक्षापत्त्या तथाविधसंयोगस्याहेतु- त्वात् । नच रत्नविशेषे व्यभिचारस्तस्य घटसाक्षात्काराहेतुत्वात् । तत्यभायां च साध्यसत्वादिति । अधिकं त्वन्यत्रानुसन्धेयम् ॥२४॥
तस्माद्गणश्च षोडशक इत्यनेन पुनरुक्तिं परिहरन् एकजाती- य सामग्र्य एकजातीयमेव कार्य दृष्टं नानेकजातीयमितिशङ्कानिरा- सपरत्वेनोपजीवकत्वसङ्गत्यार्यामवतारयति । स्पादेतदित्यादिना । सात्विकत्वे उपपत्तिमाह-प्रकाशलाघवाभ्यामिति । सात्विका उद्भूतसत्वगुणका एवमग्रेऽपि बोध्यम् । तन्मात्रकारणस्य तामसका-