ऽहङ्कारस्तथाऽपि गुणभेदोद्भवाभिभवाभ्यां भिन्नं कार्यं
करोति' इति ।
र्यत्वे उपपत्तिमाह-यतइति । गुणोद्भवादिभेदे गुणभेदे साम- ग्रीभेदान्न पूर्वोक्तदोष इत्यादौ तदुक्तम्भवतीति ।।
नन्वेवं 'सात्विकमेकादशकं प्रवर्तत वैकृतादहङ्कारादिति सुत्रे एकादशानां पूरणमेकादशकं मनस्तस्यैव वैकृतादहंकारादुत्पत्तिः श्रूयते नतु तदतिरिक्तेन्द्रियाणामपि । प्रत्युत-
वैकारिकस्तैजसश्च तामसश्चैत्यहं त्रिधा ।।
अन्तत्वाद्विकुर्वाणान्मनो वैकारिकाश्च ये ।
देवा आर्थाभिव्यञ्जनं यतः सर्वाः प्रवृत्तयः ।
तैजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च ।
तामसो भूतसूक्ष्मादियतः खं लिङ्गमात्मनः ॥
इत्यादिस्मृतौ तैजसादुत्पत्तिः । अत्रच वैकृतादिन्द्रियानुग्रह-
काणां देवानामुत्पत्त्यकथनेन न्युनतापत्तिश्चेति चेत् ।
न । एकादशसंख्यापरिमितमेकादशकमित्येवं व्याख्याने सुत्राविरोधात् । इन्द्रियाणां प्रकाशलाघवाभ्यां सात्विकत्वे सिद्धे वक्ष्यमाणयुक्त्या रजसः प्रेरकत्वेनोपष्टम्भकत्वेन वा कार- णत्वे च सिद्धे स्मृतेरप्येतत्परतावश्यकतयाऽविरोधात् । समष्टी- न्द्रियाणि मनोऽपेक्षयाऽल्पसत्त्वत्वेन राजसकार्यत्वेनैव स्मृतिषु निर्दिष्टान्यत्र तु व्यष्टीन्द्रियापेक्षयाऽधिकसत्वत्वेन सात्विकाहङ्कार कार्यतयोक्तानीत्यविरोध इति केचित् ।।
‘ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रायतंस्तमशना- यापिपासाभ्यामन्ववार्यत्ता एनमब्रुवन्नायतन्नमः प्रतिजानीहि । यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणा' मित्यादि- श्रुत्या देवानां ज्ञानकर्मसमुच्चयफलभूतानां चेतनत्वावगमेनो- त्पत्त्यसम्भवे तदकथनेन न्यूनतादोंषासम्भवाच्च । तदुपाध्युत्पत्ति-