पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्यादिदेवतालयश्रुतिविरोध इति वाच्यम् । अनारम्भके भूतले जलविन्दोर्लयदर्शनेनानारम्भकेषु भूतेष्वपि 'विज्ञानघन एवैतेभ्यो भू- तेभ्यः सम्मुन्थाये तान्येवानुविनश्यती’ति श्रुतावात्मनो लयवदापोमयः प्राणस्तेजोमयी वागित्यादिश्रुत्याविरोधायोक्तश्रुतेर्वृत्तिलयपरत्वात् ।

 ननु यदुक्तं देवानां करणाधिष्ठातृत्वेन प्रवेश इति तन सम्भ- वति । चक्षुषा हि रूपाणि पश्यतीत्यादि श्रुत्या करणानां देवतान- धिष्ठितानामेव करणत्वबोधनात् । नच "करणानि चेतनाधिष्ठितानि अचेतनत्वे सति प्रवर्त्तमानत्वाद्वास्यादिव'दित्यनुमानेन देवताकल्प- नामिति वाच्यम् । जीवाधिछिनत्वेन सिद्धसाधनत्वात् । देवानां जी वस्य चाधिष्ठातृत्वाङ्गीकारे एकाभिप्रायनियमनिमित्ताभावान्न कि- ञ्चित्कार्यमुत्पद्येत विरोधात् ।

 अपिच देवानामधिष्ठातृत्वे जीवस्य तदपेक्षया दुर्बलतयाऽप्रयो- जकत्वेन च करणाधिष्ठातृत्वाभावेन भोक्तृत्वाभावे स्वामित्वाभावा- पत्त्या देवानामेवाधिष्ठातृत्वं स्यात् । तथाच देवता इन्द्रियसाध्यफ लभागिन्यः तदधिष्ठातृत्वज्जीववदिति देवानां भोक्तुत्वं स्यात् । नचेष्टापत्तिः ‘नह वै देवान्यायं गच्छन्ती'तिश्रुतिविरोधात्। तस्माच्छु- तिस्मृतिषु करणाधिष्ठातृदेवतानिरूपण त्वग्न्याद्यभेदेनोपासनार्थं नतु तेषां मुखादिप्रवेशोऽपि वैयर्थ्यादिति चेत् । ।

 न। अनुपपत्तावसत्यामभेदेनोपासनापरतया व्याख्यानसम्भ- वात् । नचैकाभिप्रायनिमित्ताभावात्कार्यासिद्धिरूपानुपपत्तिरुक्तै- वेति वाच्यम् । विप्रतिपित्सुनामप्यनेकेषामधिष्ठातृणामेकपरमेश्वर- नियम्यतया विप्रतिपत्त्यसम्भवात् । नच जीवाधिष्ठितत्वेन सिद्ध, साधनं जीवस्याधिष्ठेयस्वरूपतत्साध्यप्रयोजनज्ञानपूर्वकतत्प्रेरकत्व- रूपाधिष्ठातृत्वासम्भवात् । अतएव आत्मेन्द्रियाद्याधष्ठाता करणं,हि- सकर्तृकम्’। इति तत्स्वरूपानभिज्ञमात्मानं साधयन्तस्तार्किकाः परा- स्ताः । नचेश्वरेण सिद्धसाधनत्वं स्वरूपप्रयोजनाद्यभिज्ञजीवाधि-