पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

दिसंसार इति वक्तुं देवेष्वारोप्य तथाभिधानात् ।

 अन्यथा चक्षुरादीन्द्रियदेवतानां मुख्यौदनादनासम्भवेनान्न- मदामेति कथनानुपपत्तेः । स्वस्वविषयग्रहणरूपान्नादनस्यन्द्रियैरेच संभवे देवानामन्नादनार्थायतनप्रार्थना तु देवताप्ययलक्षणा या गतिः ज्ञानकर्मसमुच्चयानुष्ठानफलभूता सा अपि न संसार दुःखोपशमायेति सूचनाय । ‘भाषास्माद्वातः पवते भीषोदेति सूर्यः । भीषास्माद- ग्निश्चेन्द्रश्च मृत्युद्धावति पञ्चम' इत्यादिमन्त्रवणें तेषां दुःखहेतुभय- श्रवणाञ्च । ये त्रयस्त्रिंशत्ते अष्टौं वसव, एकादश रुद्रा, द्वादशा- दित्या, इन्द्र, प्रजापतिश्चेति ।

 श्रुतौ प्रथमपर्यायेऽकामहतस्य ग्रहणे तस्य सार्वभौमानन्देन तुल्यानन्दः स्यात् । तथाच व्याघातो भवेन्मानुषानन्दे निस्पृहो मानुषानन्दभोगभागी च इति तता मनुष्यगन्धर्वानन्देन तुल्यानन्दं तस्य दर्शयितुं प्रथमपयाये तदग्रहणमियर्थः ।

 नच यदि अकामहत इत्यस्य पूर्वपर्वकामनारहित उत्तरोत्तर- पर्वकामनावानित्यर्थः स्यात्तदोक्तव्याधातः स्यात् स ने सम्भ- वति सामान्यतः कामनारहितस्यैव शब्देन प्रतीतेरिति वाच्यम् । सर्वकामरहितस्य तत्त्वज्ञस्य सर्वपर्वसु ग्रहणे तत्तत्पसमफलत्वेन वै- राग्यस्य शतगुणितफलत्वासिध्या वैराग्ये आदेशेनातिशयद्योतना- नुपपत्तः । तादृशवैराग्यऽतिशयाभावननोत्तरोत्तरपवेणि सुखाति- शयानुपपत्तेश्च त्वन्मते प्रथमपर्वणि श्रोत्रियपाठापत्तेश्च ।

 न च पूर्वपूर्वपर्वकामनारहित इत्येवास्तु उत्तरोत्तरपर्वकामना- वानिति मास्त्विति वाच्यम् । पूर्वपूर्वपर्वरक्तस्योत्तरोत्तर पर्वका- मावश्यकत्वात् । अन्यथा तद्विरक्तस्य तत्सुखमित्यसङ्गतमेच स्यात् । नचैवमपीह जन्मनि कामवतः सुखाभावेन मनुष्यगन्धवादिजन्म- न्येव सुखं वाच्यम् । तथासति तत्र स्रोत्रियत्वं न सम्भवतीति वाच्यम् । पूर्वजन्मश्रोत्रियत्वमादयोपपत्तेः ।