पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
अहंकारकार्यनिरूपणम् ।


{gap}}अन्येतु प्रथमपर्वण्यपि श्रोत्रियपाठ युक्त एव फळसाध नसम्पच्या पृथिवी शस्यानन्दः, श्रोत्रियस्य तु विना साधनं वै- राग्यातिशयादेव तत्सम्भवतीति, उत्तरपर्वविरूपः क्षुद्रमानुषान- न्दाच्छतगुणो नृपानन्दः क्षुद्रमानुषानन्दविरक्तस्यैव भवतीति वा । किं चात्र श्रोत्रियः परलोकं गतः पूर्वं परलोककामनावानिति पर- लोकं गतस्य पूर्वजन्मसिद्धश्रोत्रियत्वपरिग्रहोऽगतिकगतिरयुक्त एव श्रोत्रियजन्मन्येचैतद्वाक्यस्य योजयितुं शक्यत्वात् । श्रोत्रियस्य कर्मानुष्ठानादिना शुद्धान्तः करणस्याकामहतस्य पुष्कलवैराग्यद्वारा सम्पन्नज्ञानस्यानन्दे ब्रह्मानन्द लक्षणे सर्वेषामानन्दानामंशभावेन सिद्धेस्ते ये शतमानन्दाः स एक आनन्दः श्रोत्रियस्याकामहतस्य च भवतीति योजनसम्भवात् ।

 तथापि मानुषानन्दजघन्यत्वेनातितुत्वाद्ब्रह्मानन्दलेशत्वे- नापि गणनानर्हतया मानुषानन्देन मनसो, विक्षेपो न सम्भवति साधनदौलभ्यादिति विद्या मानुषे लोके सुखेन सम्पाद्या ऊर्द्ध- न्तु मुखपायेऽपि कर्मविद्याप्रभावतः सुलभविषयत्वात्सत्वरं मनसो विक्षेपेण विघ्नबहुलवा'न्नचेदिहावेदीन्महतीविनष्ट’ रिति श्रुतर्विद्या शीघ्रं सम्पाद्येति द्योतनाय प्रथमे पर्वणि इद्दापाठः

 ननु तत्वज्ञसामान्यकामनाभावपक्षवत् तत्तत्पर्वकामनाभाव- तस्तत्तत्पर्वसुखमिति पक्षोऽपि स्यात् समानपर्वणं उपस्थिततया तत्रैव वैराग्यसम्भवादनुपस्थितपूर्वपर्वणि वैराग्यकल्पने माना- भावात् । इहैव जन्मनि साधनं विनापि शुद्धान्तः करणस्य सुख- सम्भवेन वैराग्ये आदरातिशयसम्भवात् । तत्वज्ञपक्षत्रदत्रापि विद्या शीघ्रसम्पाद्येति द्योतनाय प्रथमपयाये श्रोत्रिया पाठोपपत्ते- श्चेति चेत् ।

 न । ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्येति विरोधापत्तेः । नहि तत्सुखविरक्त- के कार्य सञ्चाले वन्दाच एको खन्न बावन्द