पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

णगुणयोगनिमित्तत्वं गौणीत्वं लोके प्रकृते वा सम्भवति । सिंहादि निष्ठगुणानां देवदत्तादौ बाधितत्वेन योगासंभवात् । सिंहादिशब्दस्य स्वशक्यानिष्ठगुणवत्तासंबन्धेन लक्षणयैव, सिंहादिशब्देन गुणास्तैश्च देवात्तलक्षणेत्येवं लक्षितलक्षणयैव वा तद्वोधकत्वोपपत्त्या- ऽतिरिक्तगौणीष्टावृत्तिस्वीकारवैयर्थ्याच ।

एतेन-'प्रसिद्धार्थत्यागेनाप्रसिद्धगुणवाचित्वं गौणीत्वम्, सेिंहशब्दस्य प्रसिद्धसिंहत्वरूपमर्थं त्यक्त्वा देवदत्तपदसामानाधिकरण्याद्देवदत्त- निष्ठसह्यकारित्वादिगुणेष्वतिरिक्ता शक्तिः कल्प्यते । ततश्च ‘कूरो देवदत्तः’ इतिवन्मत्वर्थलक्षणया सामानाधिकरण्योपपत्तिः । गौणीपदाभिधेयत्वञ्चास्याः 'तत्र भवः' इति व्युत्पत्त्या गुणेष्वाधुनिकशक्तिकल्पनाद् द्रष्टव्यम् । अत एव शुक्लादिपदेष्वनादिशक्तिमत्सु न गौणत्वव्यवहारः । अत एव न गुणिवाचिशुक्लादिपदेष्वपि । तदर्थमाधुनिकत्वाच्यप्रसिद्धपदग्रहणम् । गुणे संकेतितेषु डित्थादिपदेष्वतिप्रसङ्गधारणाय प्रसिद्धार्थेत्यागेनेति विशेषितम् ।

अथवा ‘स्वोत्पेक्षाप्रभवारोपविषयीभूतार्थवृतित्वं गौणीत्वम् एतत्कल्पे न शब्दः स्वाभिधेयं विनाऽन्यत्र गुणादियोगमात्रेण प्रवत्तते । अतश्च वक्त्रा प्रयुज्यमानो देवदत्ते सिंहशब्दः श्रोत्रा वक्तुः प्रयोगान्यथऽनुपपत्त्या'नूनमभिधेयं सिंहत्वमारोप्यानेन प्रयुक्तः' इति कल्प्यते ॥

न च विविक्तयोरारोपानुपपत्तिः । शुक्तिकादौ रजतत्वारोपवत्, योषायां वा रेतोरूपहविःप्रक्षेपरूपहोमाधिकरणत्व- सादृश्येनाग्नित्बारोपवत्क्रूरत्वादिसादृश्येनारोपोपपत्तेः ।

नचैवं शुक्तिकादौ रजतत्वारोपेण रजतत्वादिशब्दप्रवृत्तेर्गौणत्वापत्तिः । तदारोपस्य करणदोषजन्यत्वेन स्वोत्प्रेक्षाप्रभवत्वाभावाद्-इति परास्तम् ।


आधे यत्रान्यत्र प्रसिद्धार्थकस्यैव पदस्य गुणे सांकेतिकश-