पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

मिन्द्रियत्वम् । तञ्च द्विविधम् वुद्धीन्द्रियं कर्मेन्द्रियं च । उभयमप्येतादिन्द्रस्यात्मनश्चिन्हत्वादिन्द्रियमुच्यते । ता- नि च स्वसंज्ञाभिश्चक्षुरादिभिरुक्तानि । तत्र रूपग्रहण- लिङ्गं चक्षुः, शब्दग्रहणलिङ्गं श्रोत्रम्, गन्धग्रहणालिङ्ग- घ्राणम्, रसग्रहणलिङ्ग रसनम्, स्पर्शग्रहणलिङ्गं त्वक् , इति ज्ञानेन्द्रियाणां संज्ञा । एवं वागादीनां कार्यं वक्ष्यति ( कारिका २८ ) ॥ २६ ॥

 एकादशमिन्द्रियमाह-


 उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
 गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

 

 "उभघात्मकम्” इति । एकादशस्विन्द्रियेषु मध्ये मन उभयात्मकम् , बुद्धीन्द्रियं कर्मेन्द्रियं च, चक्षुरादीनां




त्विकामति-लक्षणमाह सात्विकेति । बुद्वीन्द्रियमिति । रूपरसगन्धशब्दस्पर्शा बुध्यन्ते एतैरिति बुद्धीन्द्रियाणि । एतेषां कर्म कुर्वन्तीति कर्मेन्द्रियाणि । सर्वेषामिन्द्रियसंज्ञायां हेतुमाहो- भयमिति । इन्द्रस्य संघातेश्वरस्य । अन्येतु इन्द्रपदेन वि- षयास्तान्प्रति द्रवन्तीति इन्द्रियाणीत्याहुः ।

 तत्र चक्षुरादि मध्ये चक्षुरादिसत्वेऽनुमानमाह-रूपग्रहण- लिङ्गमित्यादिना । रूपोपलब्धिः सकराणका क्रियात्वाच्छिदा- दिवत् । एवमिन्द्रियान्तरेऽपि बोध्यम् । त्वक्चक्षुषी दुव्यस्यापि ग्राहके अन्यानि तु गुणमात्रस्य ग्राहकमिति बोध्यम् । चक्षुरादीनां तत्तद्भूतगुणग्राहकलेन तत्तद्गुणवत्वेन तत्तद्भूतारब्धत्वानुमानं तु यथा न साधीयस्तथोक्तं पुरस्तात् ।

 वागादिसत्त्वे मानाभाव इत्यत आह । वागादानामिति॥२६॥  एकादशमति । एकादशानां पूरणमेकादशमित्यर्थः । मनस उभयात्मकत्वे हेतुमाह चक्षुरादीनामित्यादिना । मनोऽधिष्ठितानां