पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५३
मनोनिरूपणम् ।


मनःसंवद्धानाम् । अत एव "अन्यत्रमना अभूवं नाद्राक्षमन्य- त्रमना अभूवं नाश्रौप" मित्यादिश्रुतिरपि सङ्गच्छते ।

 नचैवमेकमन:परिणामरूपे ज्ञाने नानावं न सम्भवतीति वा- च्यम् । एकस्मिन्नपि देहे तत्तदन्नोपयोगानुपयोगप्रयुक्त कृशत्वपुष्ट वाद्यवस्थावन्मनःपरिणामभूते ज्ञाने चक्षुरादिसम्बन्धासम्बन्धपयु- क्तचाक्षुष-श्रौतमित्यादि-चाक्षुषत्वादिव्यवस्थापपत्तेः । नचैवं गो- लकजातमेवेन्द्रियमिति नास्तिकमनप्रवेश इति वाच्यम् । दत्तोचर- त्वाच्छुतविरोधात् । गोलकादिसत्त्वेऽपि केषाञ्चिचाक्षुपाद्यदर्शनाच्च।

 भाष्यकारास्तु । एकस्यैव मुख्येन्द्रियस्य मनसोऽन्ये दश- शक्तिभेदा इत्याहोभयात्मकं मनः । ज्ञानकर्मेन्द्रियात्मकं मनः ई- त्यर्थः । उभयात्मकमिन्यस्यार्थं स्वयं विवृणाति । गुणपरिणाम- भेदानानात्वमवस्थावत् । यथैक एव नरः सङ्गवशान्नानात्वं भजते कामिनीसङ्गात् कामुको, विरक्तसङ्गाद्विरक्तोऽन्यसङ्गाञ्चान्य एवं म नाऽपि चक्षुरादिसङ्गाञ्चक्षुराद्येकीभावेन दर्शनादिवृत्तिविशिष्टतया नाना भवति । तत्र हेतुः गुणेत्यादि । गुणानां सत्त्वादीनां परि- णामभेदेषु सामर्थ्यादित्यर्थः। एतञ्च अन्यत्रमना अभूवं नाद्राक्षं अ- न्यत्रमना अभूवं नाश्रौषमित्यादि श्रुतिसिद्धाञ्चक्षुरादीनां मनः- संयोगं विना व्यापाराक्षमत्वादनुमीयते इत्याहुः ।

 तन्न । मनसोऽन्ये दश शक्तिभेदा इत्यर्थस्य सूत्रादप्रतीतः । श्रुत्यादौ तथाऽदर्शनाञ्च । उभयात्मकं मन इत्यस्मात् ज्ञानेन्द्रिय- त्वकर्मेन्द्रियत्वोभयस्य मनसि बोधनाञ्च । ननु ज्ञानेन्द्रियत्वाव च्छिनकर्मेन्द्रियत्वावच्छिन्नप्रतियोगिताकभेदाभावो बुध्यते तथा सति पञ्चज्ञानेन्द्रियपञ्चकर्मेन्द्रियभेदाभावस्य तत्रैव सत्वेन तद्- तिरिक्तमनसोऽसिद्ध्यापत्तेः । उत्तरसूत्रैकवाक्यतानुरोधेनोभया- त्मकपदेनाभयं विवक्षितं तच्च नानात्वपदेनोनुद्यावस्थावत्-अवस्था- विशिष्टुं मनो-मन एवेत्यर्थकरणे चक्षुरादिद्वारा विषयांकारपरि-


   ४५