पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

वागादीनां च मनोऽधिष्ठातानामेव स्वस्वाविषयेषु प्रवृत्तेः।

 तदसाधारणेन रूपेण लक्षयाति-सङ्कल्पकमत्र मनः” इति । सङ्कल्पेन रूपेण मनो लक्ष्यते । आलोच. तमिन्द्रियेण वस्त्विदम्' इति सम्सुग्धम् "इदमेवम् , नै- वम्' इति सम्यक्वल्पयति विशेषणावशेष्यभावेन विवे- चयतीति यावत् । यदाहुः--




णामावशिष्टतया मनो नानाभवनप्रतिपादक चक्षुरादिसङ्गाच्चक्षुराद्ये- कीभावेन दर्शनादिविशिष्टतया नानाभवतीति स्त्रोक्तविरोधापत्तेः ।

 सूत्रं तु गुणानां सवादीनां परिणामाश्चक्षुरादयस्तेषां भेदा- न्नानात्वं नानाविधत्वं ज्ञाने चाक्षुषादिवृत्तिपयुक्तं चाक्षुषत्वादिकमा- दाय मनः परिणामभूते एव ज्ञाने चाक्षुषं श्रौतमियादि व्यव- हारः । यथैकस्मिन्नेव देहे तत्तदन्नोपयोगानुपयोगप्रयुक्ताः कृश- त्वपुष्टत्वादयोऽवस्था इत्येवं व्याख्येयम् । अले प्रसङ्गागतेन ।

 ननु कथं सर्वेन्द्रियाधिष्ठातृत्वस्योभयेन्द्रियात्मकत्वे प्रयोजक- त्वमिति चेच्छृणु । बुध्यन्ते रूपादयो यैस्तानि बुद्धीन्द्रियाणि कर्म कुर्वन्तीति कर्मेन्द्रियाणीति व्युत्पत्या ज्ञानाक्रानिदानस्य तत्प्रयोजकस्य सर्वेन्द्रियाधिष्ठातृपदेन विवक्षितत्वात् । प्रयोगस्तु विमतं मनः ज्ञानेन्द्रियं कर्मेन्द्रियं वा तत्प्रयोजकसाधर्म्यात्संमतव वादिति । इदं वस्त्वित्यत्रेदंतत्त्वस्य प्रकारत्वमाशंक्याह-संमुग्ध- मिति । समुग्धं विशेषणविशेष्यभावरहितम् । इदं-घटादि एवं-घट- त्वाद्याश्रयं, नैव-न पटत्वाद्याश्रयम् । विशेषणेति । विशिष्टप्रत्य- क्षजनकमिति यावत् ।

 उक्तार्थे संमतिमाह-यदाहुरिति । अविकल्पित-विशेष- णविशेष्यभावरहितं । तच्चक्षुषा यदालोचितम् । सामान्य घटत्वा- दि, विशेष घटादिकल्पयन्तीति विशिष्टप्रत्यक्षं मनसः असाधारण- कायमित्यर्थः।