‘सम्मुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ।।
तत् सामान्यशिषाभ्यां कल्पयन्ति मनीषिणः।।
इति।
तथा हि,
अस्ति ह्यालोचितज्ञानं प्रथमन्निर्विकल्पकम् ।
बालसूकादिविज्ञानसदृशम् मुग्धवस्तुजम् ।
ततः परं पुनर्वस्तु धर्मैत्यादिभिर्यया ।
बुद्ध्या ऽवसीयते सो ऽपि प्रत्यक्षत्वेन सम्मता ॥
इति॥
सो ऽयं सङ्कल्पलक्षणो व्यापारो मनसः समानास- मानजातीयाभ्यां व्यवच्छिन्दन् मनो लक्षयति ।।
संप्रत्यर्थं स्वयमेव विवृणोति-तथाहीति । बुझ्या मनसा । ननु
‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्म-
के प्रत्यक्षं' इत्यत्र इन्द्रियार्थेन सन्निकर्षादुत्पद्यते यज्ज्ञानमव्यप-
देश्यं निर्विकल्पकमव्यभिचारि यथार्थं व्यवसायात्मकं सविकल्पकं
च तत्प्रयक्षं यतस्तत्प्रत्यक्ष प्रमाणम् । इन्द्रियार्थसन्निकषत्सुख-
दुःखे भवतस्तद्व्युदासार्थं ज्ञानमिति । नच सुखं दुःखं वा ज्ञानं
भवितुमर्हति तदभिन्न सामग्रीजत्वात् ज्ञानवदिति सुखादीनां
ज्ञानत्वापत्या ज्ञानपदेनाशक्यं व्यावर्त्तनमिति वाच्यम् । तेषां
ज्ञानसामग्न्यभिन्नजत्वाभावात् । अन्यथोपेक्षात्मकज्ञानसामग्रियापि
सुखाद्यापत्तेः ।
किञ्च तुल्ययुक्त्या ज्ञानानामपि सुखादिसामग्न्यभिन्न- त्वात्त्या शीतार्तस्यापि चन्दनेन्द्रियसंयोगाच्छीतस्पर्शज्ञानस्य सुखत्वं स्यात् । उष्णार्तसम्बन्धिनो दुःखत्वं वा स्यात् तस्मा- द्विषयविशेषतेभ्यो ज्ञानेभ्यो निर्विषयतया भिन्नजातीयाः सुख- दयो यथास्वमनुकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यभेदवन्तः । तानुकूलवेदनीयत्वं यद्यपि न निरूपधीच्छाविषयत्वं दुःखाभावे- इतिच्याप्तेः । नापि भावत्वेन विशेषणीयं सुख स्यामितीच्छायामा-