पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


त्मसुखसुखत्वयोरपि विषयत्वात् । नच सुखत्वादविषयतावच्छेद कत्वं नतु विषयत्वमिति वाच्यम् । अवच्छेदकस्यापि विषयत्वात् । तथापि सुखत्वमेव तत् । एवं प्रतिकूलवेदनीयत्वं दुखत्वमेवेति बो- ध्यम् । सुखदुःखे अवश्यसंवेद्ये अज्ञातसुखदुःखयोर्मानाभावात् । अवश्यसंवेद्यत्वं च समानकालीनसमानाधिकरणसाक्षात्कारविष- यताव्याप्यजातिमत्त्वमिति ।

 नच सत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वग्ने दर्शनात् यत्र जागरेइन्द्रियार्थसान्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं क्लुप्तसामर्थ्यात् । इन्द्रियार्थसन्निकर्ष- स्य तु ज्ञानमात्रीपयेागादन्यथासिद्धौ भावाभावाविति तद्वारणार्थं ज्ञानपदं व्यर्थमिति । न चेन्द्रियार्थसन्निकर्षः ज्ञानजननद्वारा सुखोत्प- त्त हेतुरिति वाच्यम् । ज्ञानस्योपेक्षात्मकताया अपि सम्भवे फलाप- र्यवसानतया व्यापारत्वाभावादिति चेन्न । स्वप्ने सुखदुःखोत्पा- दस्यैवासिद्धेः । तज्ज्ञानस्यार्थज्ञानस्येव मिथ्यात्वात् ।।

 अव्यपदेश्यव्यवसायात्मकपदयाः सङ्ग्राह्यव्यवच्छेद्याभावेऽपि तत्र त्रिप्रतिपत्तिनिराकरणाय द्वयोप्रत्यक्षोपाधिः स्वशब्देनोपात्ते- ति तथाच विशिष्टज्ञानस्येन्द्रियसन्निकर्षाजन्यत्वे सुत्रविरोध इति चेन्न । सूत्रार्थस्यैव विचार्यमाणत्वात् । तथाहि-अत्र चक्षुरिन्द्रि- यं किमशुपरिमाणं मध्यमपरिमाणं । परममहत्परिमाणं वा मध्य- मपरिमाणमपि सर्षपादितुल्यं वाच्यमन्यथा कृष्णताराग्रवृत्ति- त्वानुपपत्तेः ।।

 अर्थसम्बन्धोऽपि गोलकसंबद्धस्यासम्बद्धस्य वा आद्ये न प्रथम- द्वितीयौ सूर्यादेरचाक्षुषत्वप्रसङ्गात् । नह्यणुपरिमाणमुक्तमध्यमपरि- माणं वा तावत्पर्यंतमवस्थातुमुत्सहते । अत एव दीपालोकदृष्टान्तो- ऽपि परास्तः । तावत्पर्यन्तं तावत्परिमाणस्यालोकासम्भवात् । अ- णुवत् इन्द्रयाणामपि स्वरूपज्ञानाभावेन जीवाधिष्ठितत्वासम्भवा-