पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


न्द्रियमेव केवलं समम्बध्यते तदा शरीरमवधिं कृत्वा संयुक्त संयोगाल्पी- यस्त्वं भूयस्त्वं वापेक्षमाणस्य देहमर्थं चान्तवास्थतस्य पृथिव्या- देः दिग्देशप्रत्ययाः सन्निकृष्टविप्रकृष्टप्रत्ययाश्च भवन्ति । खगानां चोपर्युपरि सञ्चरतां दूरान्तिकभावो बहुलतयालोकावयवभागा- नों संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः । शाखाचन्द्रमसो स्तुल्यकालग्रहणानभ्युपगमात् । को हि स्वस्थामा शाखा चन्द्रम- सोस्तुल्यकालग्रहणं प्रतिपद्यते कालभेदाग्रहान्मिथ्या प्रत्यय एष उत्पलदलशतव्यक्तिभेद इव । चिन्त्यो हि तेजमो लाघवातिशया यदु- दयगिरिशिखरमोरोहत्येव मार्त्तण्डमण्डले भवनोदरेष्वालोक इत्यभि- मानो लौकिकानां तादृशं चाक्षुपमपि तेजः क्रमेणापि गच्छ- द्युगपत्तत्र प्राप्तमिति लक्ष्यते इति ।

 तन्न । अन्यावधिकस्य दिग्दशव्यवहारस्यासति बाधके श- रीरावधित्वेन प्रतिपादयितुमशक्यत्वात् । शरीरस्थितलोम्नामुप- र्य्युपरिस्थिततया प्रतीतेर्निर्वोढुमशक्यत्वाच्च । शाखाचन्द्रमसोस्तु- ल्यकालप्रत्ययोऽसति बाधकं मिथ्येति कल्पयितुमशक्यत्वात् ।

 यतु वार्त्तिककाराः-चक्षुः प्राप्यकारि इन्द्रियत्वात् प्राणादि- वत् । अथवन्द्रियाणि प्राप्यकारीणि करणत्वाद्वास्यादिवदित्यनुमानं बाधकमित्याहुस्तन्न । त्वगादौ व्यभिचारात् । चरमे तत्रैव बाधात् । त्वगिन्दियवत्कर्णेशष्कुल्पवच्छिन्नश्रेत्रस्यापि गमनासम्भवात् ।

 एतेन प्रयोगस्तु चक्षुःश्रोत्र प्राप्य स्वविज्ञेयं कार्यं कुरुतः । जनकत्वे सति तदप्राप्तावजनकत्वात् । यज्जनकं सत् यदप्राप्तौ यन्न जनयति तत्तत्प्राप्तावेव तज्जनयति यथा कुम्भजनको मृदप्राप्ताव- कुर्वन्कुभं तत्प्राप्तावेव करोति तथाचैतत्तस्मात्तथेतीति तात्पर्यटका- कृदुक्तं परास्तं । नचात्रभवतां वाचस्पातमिश्राणां भ्रमो ने सम्भ- वतीति शङ्कनीयम् सर्वमनुष्याणां भ्रान्तिधर्मत्वात् । वार्त्तिककारो- क्तानुमानस्य त्वगादौ व्यभिचारवारणाय तदनुरोधेन प्रवृतेश्च ।