क्त्तिकल्पनं तादृशस्थले गौणत्वव्यवहाराभावादतिव्याप्तेश्च ।
द्वितीये रूपकादिकाव्ये वक्तुरारोपविवक्षया प्रयोगेणारोपिता- र्थवृत्तित्वलक्षणगौणत्वसद्भावेऽपि ‘सिंहो देवदत्तः’ इत्यादौ वक्त्रा यत्र शक्यार्थगतगुणसादृश्यमात्रविवक्षया प्रयुज्यते श्रोता च तथैव प्रतिपद्यते तत्र सर्वानुगतेन गौणत्वेनैव प्रयोगोपपत्तेरारोपकल्पने प्रमाणाभावाच्च इति चेत् ।
न । उक्तलक्षणादिना क्वचिद् बोधातुपपतौ तत्कल्पनात् ।
तथाहि-स्वशक्यसम्बन्धवत्त्वं लक्षणा, यथा 'गङ्गायां घोषः' इयत्र गङ्गापदशक्यप्रवाहसम्बन्धोऽस्ति तीरे, अतो गङ्गापदात्ती- रबोधे लक्षणा वृत्तिः । तज्ञ्ज्ञानं च गङ्गापदशक्त्यैव प्रवाहबोधे जाते ‘एकसम्बन्धिदर्शनेनापरसम्बन्धिस्मरणम्'इत्यनेन न्यायेन तत्सम्ब- न्धवत्ताबोध इत्येवंप्रकारेणैव । तत्कार्यतावच्छेदकं च तीरविशे- ष्यकगङ्गासम्बन्धितीरत्वप्रकारकशाब्दत्वम् ।
सर्वत्र हि ‘गङ्गायां घोषः’ ‘सिंहो देवदत्तः' इत्यादौ उभय त्राप्युभयविधो बोधोऽनुभवसिद्धः । कदाचिच्छक्यसम्बन्धः सम्बन्धत्वेन रूपेण भासमान एव प्रकारताघटकः । यथा ‘गङ्गा सम्बन्धितीरे घोषः’ ‘सिंहसम्बन्धी देवदत्तः’ इति । कदाचिच्च स एव सम्बन्धः शक्यसम्बन्धत्वेन रूपेण नैव भासते, अपि तु तन्निष्ठसंयोगादिना 'गङ्गानिष्टसंयोगवति तीरे घोषः'सिंहनिष्टगुण- समानजातीयगुणवान्देवदत्तः'इति । तदेवं तत्तत्प्रकारताभेदेन बोधवैलक्षण्यात्कार्यवैलक्षण्येन कारणेऽपि वैलक्षण्यमावश्यकम् ।
यद्यत्र सम्बन्धिता साक्षात्परम्परासाधारण्येन प्रकारे प्रविष्टा 'गङ्गासंबन्धिनि घोषः, गङ्गासंबन्धितीरे वा घोषः, ‘सेिंहसंबन्धी देवदत्तः' इति तदा तादृशशाब्दत्वावच्छिन्नं प्रति लक्षणापदाभिधेयः स्वशक्यसंबन्धः संबन्धत्वेन ज्ञातः कारणम् ।
अत एव यत्र ‘सिंहो देवदत्तः' इत्यादौ 'सिंहसम्बन्धिसम्बन्धी