पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

पादानत्वं च साधम्यम् नत्विन्द्रालिङ्गत्वम् , महदहङ्कार- योरप्यात्मालेङ्गत्वेनेन्द्रियत्वप्रसङ्गात्, तस्माद्व्युत्पत्ति- मात्रमिन्द्रलिङ्गत्वम् न तु प्रवृत्तिनिमित्तम् ।

 अथ कथं सात्त्विकाहङ्कारादेकस्मादेकादशेन्द्रियाणी- त्यत आह-“गुणपरिणामविशेषाद् नानात्वं बाह्य- भदाश्च इति । शब्दाशुपभोगसम्प्रवर्तकादृष्टसहकारि- भेदात्कार्यभेदः । अदृष्टभेदो ऽपि गुणपरिणाम एव ।

 अन्यतु मनसाऽसाधारणविषयाभावादीन्द्रयत्व मास्त्विति विवदानः शङ्कते -स्यादेतदिन्याहुः । ‘इन्द्रलिङ्गमिन्द्रजुष्टमिन्द्रदत्त मित्यादिपाणिनीयवचनविरोधं परिहर्तुमुपसंहरति तस्मादितिवाह्य भेदा इति । बाह्यभेदा अग्न्यादयः । यथैको ऽग्निर्दहति प्र- काशयति । यथैव कामिनी पुरुषाभिप्रायविशेषभेदात्सुखादिकं, बाह्यभेदाच्चेति पाठे तु ग्राह्य भेदादपॉन्द्रियभेद आवश्यक इत्यर्थः ।

 यत्तु किं मनस इन्दियत्वे श्रुतिः प्रमाणमुत स्मृतिरनुमानं वा नाद्यस्तथाविधश्रुतेरनुपलं मान्न द्वितीयो मनःषष्ठानीन्द्रिया- णीति स्मृतेर्मनस इन्द्रियगतषट्त्वसंख्यापूरकत्वे प्रमाणत्वान्न त्वि- न्द्रियत्वे । नापि चरमः । तथाहि-मन इन्द्रियमिन्द्रियगतषत्व- संख्यापूरकवादित्यनुमानस्य विशेषव्याप्तिमूलत्वे दृष्टान्ताभावात् । यद्यद्गतसंख्यापूरकं तत्तज्जातीयं । यथा पशौ प्रतिप्रस्थातृषष्ठा- ऋत्विज इति सामान्यव्याप्तिमूलत्वे यजमानपञ्चमा इडां भक्षयन्ती- त्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणद- शैनेन तत्र व्यभिचारात् । नच यजमानस्यापि ब्राह्मणत्वेन साजा- त्यमस्त्येवेति वाच्यम् । यद्यत्पदाचगतयद्गतसंख्यापूरकं तत्तत्पदा- र्थतावच्छेदकेन रूपेण तत्तज्जातीयमिति व्यानेर्विवक्षितत्वात् ऋत्वि- क्पदानुषङ्गे ऋत्विकस्यैव पदार्थतावच्छेदकत्वात् । वेदानध्याप- यामास महाभारतपञ्चमानित्यत्र व्यभिचाराञ्चा ।