पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
'३६१
मनोनिरूपणम् ।

‘बाह्यभेदाश्च' इतिदृष्टान्तार्थम्-यथा बाह्यभेदास्तथैत- दपीत्यर्थः ।। २७ ।।




 न च रूपाद्युपलब्धिः करणजन्या इन्द्रियजन्या वा कार्यत्वा- त्प्रत्यक्षज्ञानत्वात् घटवत् रूपादिप्रत्यक्षवदन्यथा जन्यसुखादिज्ञा- नस्य प्रत्यक्षत्वे न स्यादिति वाच्यम् । शरीरप्राणसंयोगादिद्वारा शरीरादिकमादायार्थान्तरात् । करणव्यापाररूपसन्निकर्षस्य कर- णान्तराजन्यतया कार्यमात्रस्य करणजन्यत्वानियमनायोजक- त्वाच्च । द्वितीयानुमाने ईश्वरप्रत्यक्षे व्यभिचारात् । न च जन्य- प्रत्यक्षज्ञानत्वादित्येव हेतुरिति वाच्यम् । सुखादिसाक्षात्कारस्य जन्यत्वासिद्धेः ।

 तथा हि । सुखादिव्यवहारः स्वविषयज्ञानजन्यः अर्थज्ञानाधी- नव्यवहारत्वात् संमतवदिति लाघवसहकृतदनुमानात् लाघव सहकृतसुखसाक्षात्कारानुगतबुद्धेश्च, घटज्ञानधारातदाश्रयविषयकात् घटादिगोचरज्ञानेन घटज्ञानधारातदाश्रययोरविषयतयाऽसम्भवात्त- त्कालविशेषावच्छिन्नज्ञानधारातदाश्रयसाक्षिरूपनित्यानुभवं विना ऽनुपपद्यमानार्दतावन्तं कालभिदमनुभवन्नेवासाभित्यनुसन्धानाच, न हिं दृष्टुर्द्दष्टर्विपरिलोपो विद्यते इत्यादिश्रुतेश्च समवायवान्नित्यैकसाक्षा- कारसिद्धः । सुप्तप्रलयादिव्यवहारे व्यभिचारवारणायाधीनान्तम् ।

 नारायणाश्रमास्तु । सुखसाक्षात्कारव्यवहारे व्यभिचारवार- णार्थ ज्ञानाधीनजडव्यवहारत्वादिति वक्तव्यमित्याहुः । न च वे- दान्तमते सुखस्य ज्ञानाभिन्नत्वेन व्यवहारविषयसुखस्य स्वाधिषयक- ज्ञानाभावाज्जडभिन्नत्वाञ्च बाधस्वरूपासिद्धिरिति वाच्यम् । ज्ञानप- देन व्यवहारविषयस्य यज्ज्ञानं स्वविषयविषयकं विषयस्वरूपं वेत्य: न्यतरस्य विवक्षितत्वात् ।

 न चैवं सुखसाक्षात्कारयवहारे व्यभिचाराभावात्तद्वारणाय नारायणाश्रमाणां जडपदोपादानं व्यर्थमित वाच्यम् । तदुपादान-



 ४६