स्थ भ्रममूलकत्वेनेष्टापत्तेः । अन्यथा परैः सुखसाक्षात्कारातुव्य-
वसायाङ्गीकारेण तत्र व्यभिचाराभावात् स्वमतरीत्योपादाने चो-
क्तरीया स्वरूपासिद्धेः । न चानुव्यवसायेन घटज्ञानधारादिस्मृत्यु-
पपत्तिरिति वाच्यम् । तत्तज्ज्ञानानन्तरमनुव्यवसायाङ्गीकारे विजा-
तीयव्यवधानेन ध्यानादिरूपधारानुपपत्तेः । धारानन्तरमङ्गीकारे तु
विनष्टानां ज्ञानानामनुभवासम्भवात् । सामान्यलक्षणाङ्गीकारेऽपि
समयविशेषावच्छिन्नज्ञानमात्रस्यानुभवासम्भवात् ।
वस्तुतोऽनुव्यवसायोऽपि न सम्भवति । तथा हि । येन मनः- संयोगन घटज्ञानमजनि तेनैव तद्ग्राहिभानान्तरं जन्यत उतान्येन ? नाद्यः । असमवायिकारणभेदस्य क्रमस्य च ज्ञानभेदक्रमप्रयोजक- स्याभावेन व्यवसायाऽनुव्यवसाययोर्यौगपद्यापत्तेः । न चेष्टापत्तिर- पसिद्धान्तापत्तेः । अनुव्यवसायं प्रति कर्मकारकतया जनकस्य व्यव- सायस्थ पूर्ववृत्तित्वनियमाच्च । नचासमवायिकारणस्यैव प्रत्ययक्रमे सामर्थ्यं न तु तद्भदस्य क्रमस्य चेति वाच्यम् । असमवायिकारणभेद एव ज्ञानभेदे हेतुरिति सिद्धान्तहान्यापत्तेः । इष्टापत्तौ तु अपेक्षणीया- न्तराभावेन विलम्बासम्भवात् व्यवसायानुव्यवसाययोर्य्यौगपद्यानि- वृत्त्यापत्तेः ।।
न च चक्षुरादिजन्यबाह्यविषयकज्ञानक्रमे बाह्य सामग्र्यवच्छेद- क्रमभेद एव, अनुव्यवसाये तु व्यवसायसहकृततज्जनकमनःसंयो- ग एव हेतुरित्युक्तेरपसिद्धान्तदोषसत्वेऽपि नोक्त यौगपद्यापत्तिरित वाच्यम् । आद्ये युगपदेव संयुक्तेषु घटपटादिषु युगपदेवानेकज्ञान- जन्मप्रसंगात्तत्र समूहलम्बनात्मकैकज्ञानाङ्गीकारेऽपि ज्ञानधारापत्या सुषुप्त्याद्यभावप्रसंगात् । अत एव न चरमोऽपि, अनुव्यवसायथारा- पच्या सुषुप्त्याद्यभावप्रसंगात् । न द्वितीयः। घटज्ञानोदयसमये मनसि क्रिया ततो बिभागस्ततः पूर्वसंयोगनाशस्तत उत्तरसंयोगोत्पत्ति- स्ततो ज्ञानान्तमित्यनेकक्षणविलम्बेनोत्पद्यमानस्य ज्ञानस्यापरोक्ष-