पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
'३६३
मनोनिरूपणम् ।

तया पूर्वज्ञानग्राहकत्वानुपपत्तेः।

 साक्षात्कारस्य नित्यत्वेऽनुभवविरोध इति वदन्पृष्ट आचष्टां किं जाग्रति घटसाक्षात्कारसमये घटसाक्षात्कारो नास्ति उत :सुषुप्त्या- दौ ज्ञानं नास्तीति ज्ञानसामान्याभावानुभव वा ? अद्येऽपि किं घट- साक्षात्कारकालीन उत तदितरकालीनो वा? नाद्यः । ज्ञानस्य यौ- गपद्याभावेन घटसाक्षात्कारोत्पत्यनन्तरमभावज्ञानहेतुधर्मिप्रतियो- गिज्ञानोत्पत्तिस्तदनन्तरं तदुत्पत्तिसमये घटसाक्षात्कारस्यैव नाशा- त् । घटसाक्षात्कारात्प्राकू धर्मप्रतियोगिस्मरणाङ्गीकारेऽपि येनोद्- बोधकसहकृतेनात्ममनःसंयोगन स्मरणमजनि तेनैव मनसो बाह्ये- न्द्रियसन्निकर्षोत्पादकप्रयत्नान्पादे तज्जन्यविभागादि समये एवं स्म- रणनाशात् ।।

 न द्वितीयः । “नहिद्रष्टुर्दृष्टेर्रेर्विंपारिलोपो विद्यत' इत्यादिश्रुत्या इदा- नीं साक्षात्कारो नास्तीति स्वरूपेणाभावाननुभवेन च साक्षात्कार- स्य नित्यत्वे सिद्धे साक्षात्कारे पटादिविषयकत्वाभावविषयकत्वेनै वानुभवस्यान्यथासिद्धः । सुषुप्त्यादौ ज्ञानं नास्तीत्यनुभवः किं सु- षुप्तिकालीन उत तदितरकालीनो वा नाद्यः, धर्मप्रतियोगिज्ञान- सत्वासत्वाभ्यां तदसम्भवात् । न च सुषुप्तिप्राक्कालीनविनश्यदव स्थापन्नवर्मिप्रतियोगिज्ञानं सम्भवतीति वाच्यम् । ग्राहकज्ञानकाले ग्राह्यस्यैवाभावात् ग्राह्याभावे ग्राहकस्याप्रमावापतेश्च । न च विष यस्य प्रत्यक्षे विषयत्या कारणत्वं पूर्ववृत्तित्वमात्रेणैव न तु सहभावे- न मानाभावात् । ज्ञानानां प्रामाण्यं चाव्यवहितपूर्वक्षणान्तभावेण स्थूलकालोपाधिमादाय विपरसवप्रयुक्तं न त्वधिकरणक्षणमादाये- ति वाच्यम् । क्रियाहितातिशयाश्रयत्वेनैव कर्मत्वनिर्वाहाय सह- भावस्यैवावश्यकत्वात् ।।

 न द्वितीयः । सुषुप्तिकालीनात्मनस्तत्कालीनज्ञानसामान्याभा- वस्य वेदानीमसत्वेन प्रत्यक्षासम्भवात् , विमत आत्मा सुषुप्तकालीन-