पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

ज्ञानवान् तद्विषयस्मरणादित्यनुमानाञ्च यो यद्विषयस्मरणवान्स त- द्विषयज्ञानवानिति व्याप्नेः । न च हेत्वसिद्धिः । सुखमहमेस्वाप्सं गाढमू- ढोऽहमासं न किंचिदवेदिषमिति स्मरणाभिलापस्य सर्वजनीनानुभव सिद्धत्वात् । नचाप्रयोजकत्वम् । आत्मा यदि सुषुप्तिकालानज्ञानसा- मान्या भाववान्स्यात्तदा तद्विषयस्मरणान्स्यादिति विपक्षबाधक- तर्कसत्त्वात् ।

 ननु मुखमहमस्वाप्समित्यादि न स्मरणं किंतु सुषुप्तकालीन आत्मा दुःखाभाववान् समवायसम्बन्धविच्छन्नप्रतियोगिताकज्ञान- सामान्याभाववान् अस्मर्यमाणत्वान्नियमेनास्मर्यमाणत्वाद्वैत्यनुमा- नम् । न च ज्ञानसामान्याभावस्येदानीमनुमयमानत्वेन तद्रूपसुषुप्ति- कालीनेऽसिद्धे धर्मिण्यात्मनि कथमनुमानं, प्रतिपन्ने प्रातश्चत्वरा- दौ धर्मणि सायं समये तत्र गजाभावानुमानं सम्भवति न त्वप्रति- पन्ने धर्मिणीति वाच्यम् । विमतावृदयास्तमयसमयौ परस्परोत्त- रभाविनाबुदयास्तमयसमयत्वात्सम्प्रतिपन्नोदयास्तमयसमयवादिति विवादयोरप्युदयास्तमययोरन्तरालकालमनुमाय विमतोऽन्तरालका ल आत्मसम्बन्धी कालत्वात्सम्प्रतिपन्नकालवदित्यनुमिते धर्मिण्या- त्मनि ज्ञानाभावानुमानोपपत्तेरिति चेत् ?

 न । अस्मर्यमाणस्य पथि गच्छतस्ततृणस्पशादौ नियमेनास्मर्यमा- णस्य च निर्विकल्पकानुभूतेनैकान्तिकत्वात् । न च ज्ञानसामग्रीवै- कल्यलक्षणलिङ्गाज्ज्ञानाभावानुमानामिति वाच्यम् । अन्योन्याश्रया- पत्तेः सामग्र्यभावात्ज्ञानाभावानुमानं तदभावाञ्च सामग्र्यभावा- नुमानमिति । सुखमस्वाप्से न किञ्चिदवेदिषमिति स्मृतिमूलानुभ वबोधक-तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्व- प्नं पश्यति । यद्वैतन्न पश्यति पश्यन्वै तन्न पश्यति न दुष्टुर्दृष्टोविंप-