रिलोपा विद्यनेऽविनाशत्त्वान्न तु तदाद्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत् । यत्र सुप्ता ने कञ्चन कामं कामयते न कञ्चन स्वयं पश्य- ति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यान- दभुक् च्नेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाययौ हि भूतानाम् । उद्दालिको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं में सोम्य विजानीहीति यत्रतत्पुरुषः स्वपिति नाम मता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति यथा शकुनिः सूत्रे प्रवृद्धे दिशं दिशं पतिन्वाS न्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सौम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणवन्ध- नं हि सोभ्य मनः-इत्यादिश्रुत्या कालात्ययापदिष्टत्वाञ्च ।
तथा हि-तत्प्रस्तुतमहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः। तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपमित्यादि वक्ष्य- माणं धर्माधर्ममूलकामरहितं तत्र दृष्टान्त उपादयिते यथेति अस्मि- न्नाकाशे भौतिके श्येनो मन्दवेगः सुपर्णस्तु महावेगवानिति भेदः विपरिपत्य श्रान्तः नानापरिपतनलक्षणकर्मणा परिखिन्नः संहत्य पक्षौ सम्प्रसार्य सङ्गमय्य पक्षौ । सम्यक् लीयतेऽस्मिन्निति संल्लयो नीडस्तस्मै एव ध्रियते स्वात्मनैव धार्यते । एवमेव यथायं दृष्टान्तस्त- थायं पुरुषः । अन्ताय स्वप्नजागरितयोरवसानायाज्ञातव्रह्मणे स- ता सोम्य तदा सम्पन्नो भवति एव मेवायं पुरुषः प्राज्ञेनात्मना सं- परिष्वक्तः । तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सं- चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गछन्य एतं ब्रह्म- लोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः । इति श्रुत्यन्तरात् ।
दृष्टान्ते वृत्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः स च धात्वर्थेऽन्वेति तथा नीडवृत्तित्वप्रकारकेच्छाविषयनीडानुयोगिकप्रयतनप्रतिबन्ध-