पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

कसंयोगानुकूलकृतिमान् श्येनादिरित्यर्थः । दार्ष्टान्तिके तु नारदाय रोचते कलहःस्वस्ति भवते इत्यादिवद्वृत्तित्वं चतुर्थ्यर्थः । तथाचाज्ञात ब्रह्मवृत्तोमन उपाधिकलयानुकूलव्यापारवानित्यर्थः। तत्र तस्मिन्नज्ञा- ते ब्रह्मणि, वृत्तित्वं सप्तम्यर्थः । तंञ्चाभेदेन तथाच प्रलीनमनस्काज्ञा तब्रह्माभिन्नविषयक ज्ञानावस्थाविशेषरूपसुषुप्त्याश्रय इत्यर्थः ।

 नचात्मयोग्यविशेषगुणसामान्याभावः सुषुप्तिः । पुरुषान्तरे प्र- तियोगिसत्वेनासिद्धेः । तत्तत्पुरुषीयत्वनिवेश स्वपिधातोरनन्तार्थ- तापत्तेः । नच नाडोविशेषावच्छेदेन मनःसंयोगस्तस्यातीन्द्रियत्वे- नाबालाङ्गनमस्वाप्समिति स्मृतिहेतुप्रत्यक्षायोग्यत्वात् । एवमेव ख- लु सौम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवो- पश्रयते प्राणबन्धनं हि सोम्य मन' इयादिप्राणरूपे :अज्ञातव्रह्मणि मनोलयश्रुतिविरोधाञ्च । प्राणः बन्धनमधिष्ठानतया यस्य मनसो मनउपाधिकस्य जीवस्येत्यर्थः ।

 नच प्रलीन मनस्केति विशेषणेनैव स्वप्नजागरितयोवृत्तौ न कञ्चनेत्यादिवशेषणं व्यर्थमिति वाच्यम् । छान्दोग्यश्रुतिसिद्धसुषु- प्तिसमानार्थक ‘न कञ्चन कामं कामयते नुकञ्चन स्वप्नं पश्यति तत्सुषुप्त' मिनिमाण्डूकश्रुतिसमानार्थतालाभायात्र श्रुतौ तथोपादा- नात् । नचैकस्यैव विशेषणस्य व्यवच्छेदकत्वसम्भवादलं विशेष णाभ्यामिति वाच्यम् । विकल्पेन व्यवच्छेदकत्वात् । तदुक्तं माण्डू कव्याख्याने भगवत्पादैः । नहि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्ष में स्वप्नदर्शनं कामो वा कश्चन विद्यते इति ।

 गौडपादाचार्य्यास्तु । प्राप्तविषयोपभोगकाले कस्यापि काम स्याभावात्तत्कालव्यावृत्त्यर्थं न कञ्चन स्वममिति । न कञ्चन स्वप्नमि- येवोक्ते कामकालेऽपि विषयान्यथाभावग्रहणलक्षणस्वप्नदर्शनाभा- वात्तद्व्यावृत्यर्थं न कञ्चन कामं कामयत इत्युक्तमित्याहुः । सुषुप्त- स्थाने ऽज्ञातव्रह्माणि एकीभूतस्तदेवाह प्रज्ञानघन एवेति जाग्रदा-