पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


म्भवत्यतो विभक्तमिति । विभक्तमसम्बद्धमित्यर्थः । नचवि- भागवतः स्वत एवान्यत्वाद्वितीयत्वाच्च द्वितीयामित्यादि विशेषणं- व्यर्थमिति वाच्यम् । विभक्तस्य रूपादेः सत्त्वेऽप्यन्धबाधिरादीनां विक्षिप्तचित्तानां च दर्शनाभावेन केवलस्य विभक्तस्य दर्शनप्रयो- जकत्वाभावात् । नच प्रमात्राद्यभावाङ्गीकारे अज्ञानावस्थावभास- कत्वोक्तिर्विरुध्येतेति वाच्यम् । अज्ञानस्याप्रमाणकत्वेन साक्षि- मात्रवेद्यत्वात् ।

 ननु बन्धस्य मिथ्यात्वान्मिथ्याभूतमेव किञ्चिदुपादानमेष्टव्यं तञ्चाज्ञानमेव । नच घटादेमृत्वान्मृदेवोपादानं नत्वन्यत्तत्र मानाभा- वादिति वाच्यम् । शुक्त्यज्ञाने रजतभ्रमादि तदितरथा नेत्यन्वयव्यति- रेकाभ्यां रजताध्यासस्य मिथ्याभूताज्ञानोपादानत्वसिद्धौ विमत- मज्ञानोपादानकमध्यासत्वात् शुक्तिरजताध्यासवदित्यनुमानस्य मानत्वात् । नचाविष्ठानविशेषांशाग्रहग्रहावेव शुक्त्यज्ञानतदभावौ- ततश्च तद्विषयत्वेनान्वयव्यतिरेकावन्यथासिद्धाविति दृष्टान्ते सा- ध्यवैकल्यमिति वाच्यम् विकल्पासहत्वात् ।

 तथाहि अध्यासान्वयव्यतिरेकयोरधिष्ठानविशेषांशत्वग्रहवि- षयत्वं किं विशेषांशग्रहस्याध्यासं प्रति प्रतिबन्धकतया निवर्त्त- कतया वा नाद्यः । प्रतिवन्धकमावस्यान्वयव्यतिरेकविषयत्वस- म्भवेऽप्यधिष्ठानविशेषग्रहस्याप्रतिबन्धकत्वात् । तदेव हि प्रतिबन्ध- कं सत्यपि सकलकारणसमवधाने यत्सत्वे न कार्यानुत्पादः । नच तथात्वं विशेषांशग्रहस्याध्यासकारणे दोषे सति तस्यैवासम्भवाद् निर्दोषन्द्रियार्थसन्निकर्षरूपकारणाभावात् ।

 न द्वितीयः कार्यस्य स्वोत्पत्तावपेक्षितत्वेन कारणमात्रानुविधा यित्वं निवर्त्तकाभावस्य तु स्वोत्पयनन्तरं स्वरूपसंरक्षणार्थमपेक्षि- तत्वेनान्वयव्यतिरेकाविषयत्वात् ।

 अस्तु तर्हि दोषविषयत्वेनान्वयव्यतिरेकयोरन्यथासिद्धिस्तत्र