पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
मनोनिरूपणम् ।


विषयदोषः सादृश्यादिः, इन्द्रियदोषः काचादिः,प्रमातृदोषो रागादिः इति चेन्न । सर्वस्य भावकार्यस्य सोपादानत्वनियमान् । अध्यास स्य च भावकार्यत्वादपेक्षितोपादानान्वयव्यतिरेकयोर्दोषादोनिमि त्तकारणविपयत्वेनान्यथासिद्ध्यसम्भवान् दोषस्य च तदुपादानत्वं मृदादेश्च तत्वेन घटादेरिव दोषाश्रितत्वेनाध्यासोपलम्भापत्तेः अ- ननुगमाञ्च ।

 तर्हि क्लृप्तमेवात्मान्तःकरणं वाध्यासोपादानत्वेनान्वयव्यतिरे- कविषयोऽस्तु नत्वक्लृप्तमज्ञानं कारणमिति चेन्न । क्लृप्रत्वेऽपि तयोः सत्यत्वेन मिथ्याभूताध्यासोपादनत्वासम्भवात् आत्मनो निरवय- ववेन मिथ्यारजत प्रतिभासाकारेण परिणामासम्भवात् केवलस्य बहिरस्वतन्त्र्यतया विषयसंप्रयोगसापेक्षस्यैवान्तःकरणस्यानिर्व- चनीयरजतप्रतिभासरूपपरिणामौचित्यात् ।रजतदिश्च प्रतिभा- सापूर्वमसत्त्वात्तदिन्द्रियसम्प्रयोगासम्भवे तत्तज्ज्ञानरूपान्तःकर- णपरिणामासम्भवादधिष्ठानसम्प्रयोगस्य चाध्यासहेत्वाधिष्ठानसा- मान्यज्ञानपक्षीणत्वात् । अधिष्ठानेन्द्रियसम्प्रयोगादधिष्ठानाकार- वृत्तिरूपैकपरिणामवति तदैव रजतातिभासरूपरिणामान्तर- सम्भवाञ्च ।।्

 किश्चान्तःकरणस्य भ्रान्त्युपादानवे तदाधारत्वं वक्तव्यं त- ञ्च किं केवलस्योत चित्यध्यस्तस्य नायः । ज्ञातृत्वप्रसङ्गाज्जडस्य च तदसम्भवाद् । अज्ञानभ्रमसम्यक्ज्ञानानामेकाश्रयत्वनियमे- नाज्ञानसम्यग्ज्ञानयोरप्यन्तःकरणाश्रयत्वापत्त्या आत्मनो नित्य- मुक्तत्वप्रसङ्गाञ्च ।।

 नद्वितीयः । तथासति चित्तादात्म्यापनत्वेन ज्ञातृत्वाविरोधे- Sपि अज्ञानस्याध्यासोपादानस्य त्वयाऽनभ्युपगमात् । अन्तक- रणस्य च स्वपादानत्वासम्भवाञ्चित्यन्तःकरणाध्यासस्यैवानुपप- चेः । नच भ्रान्तेरज्ञानोपादानत्वे आत्माश्रयतया स्फुरणं न स्या-



 ४७